Enter your Email Address to subscribe to our newsletters

वाराणसी-नगरम्, २१ अप्रैलमासः (हि.स.)। उत्तर-प्रदेशस्य वाराणसी-जनपदे मङ्गलवासरे गङ्गा-नद्याः स्वच्छतां प्रति समर्पिताः नमामि-गङ्गे-कार्यक्रमस्य स्वयंसेवकाः समक्ष-घट्टे जन-जागरूकता-अभियानं सञ्चालितवन्तः। अस्य अभियानस्य समये श्रद्धालुभ्यः स्थानीय-नागरिकेभ्यः च केवलं स्वच्छतायाः महत्त्वं न बोधितम्, अपि तु सर्वान् मिलित्वा मातरं गङ्गां स्वच्छां निर्मलां च धारयितुं शपथ: अपि ग्राह्यः कृतः।
अस्मिन् अवसरे गङ्गा-स्वयंसेवकः राजेश-शुक्लः अवदत् यत् एतत् केवलं अभियानं नास्ति, अपि तु आगामि-पीढीनां कृते दृढः संकल्पः अस्ति। अन्ये स्वयंसेवकाः अपि जनान् स्वच्छतां जीवनस्य अङ्गत्वेन स्वीकर्तुं प्रेरितवन्तः।अभियाने स्वयंसेवकैः सह घट्टे उपस्थिताः गङ्गा-प्रेमिणः स्नानार्थिनः च अपि पूर्ण-उत्साहेन सहभागिनः अभवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता