जुबीन-गर्ग-हत्या-प्रकरणम् — मुख्य-अभियुक्तानां जामिन-याचनायाः विषये अद्य श्रवणम्
गुवाहाटी-नगरम्, २२ अप्रैलमासः (हि.स.)। जुबीन-गर्ग-हत्या-प्रकरणे मुख्य-अभियुक्तयोः श्यामकानु-महन्तः तथा सिद्धार्थ-शर्मा इत्येतयोः जामिन-याचनयोः विषये अद्य श्रवणं भविष्यति। श्यामकानु-महन्तेन १० अप्रैल-दिनाङ्के न्यायालये स्व-जामिन-याचना दत्ता आसीत्,
जुबीन गर्ग


गुवाहाटी-नगरम्, २२ अप्रैलमासः (हि.स.)। जुबीन-गर्ग-हत्या-प्रकरणे मुख्य-अभियुक्तयोः श्यामकानु-महन्तः तथा सिद्धार्थ-शर्मा इत्येतयोः जामिन-याचनयोः विषये अद्य श्रवणं भविष्यति।

श्यामकानु-महन्तेन १० अप्रैल-दिनाङ्के न्यायालये स्व-जामिन-याचना दत्ता आसीत्, यदा सिद्धार्थ-शर्मणा २० अप्रैल-दिनाङ्के जामिनार्थं आवेदनं प्रस्तुतम्।

अनेन प्रकरणेन व्यापकं ध्यानम् आकर्षितम् अस्ति, अतः अद्यतन-श्रवणं प्रति सर्वेषां दृष्टिः केन्द्रिता अस्ति। न्यायालये उभय-पक्षयोः तर्कान् श्रुत्वा अनन्तरं अग्रिम-कार्यवाही निर्धार्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता