वर्दी राष्ट्रस्य सुरक्षाऽखंडतासम्मानयोः प्रतीक : डीआईजी
सुपौलम्, 22 अप्रैलमासः (हि.स.)। सशस्त्र-सीमा-बलस्य प्रशिक्षु-प्रशिक्षण-केन्द्रे सुपौले द्वादशे बुनियादी-प्रशिक्षण-कार्यक्रमे षोडश (१६) नव-प्रशिक्षवः चतुर्विंशति-सप्ताहपर्यन्तं कठिनं प्रशिक्षणं सफलतया सम्पन्नवन्तः। अस्मिन् अवसरे आयोजिते दीक्षान्त
Ssb


Ssb


सुपौलम्, 22 अप्रैलमासः (हि.स.)।

सशस्त्र-सीमा-बलस्य प्रशिक्षु-प्रशिक्षण-केन्द्रे सुपौले द्वादशे बुनियादी-प्रशिक्षण-कार्यक्रमे षोडश (१६) नव-प्रशिक्षवः चतुर्विंशति-सप्ताहपर्यन्तं कठिनं प्रशिक्षणं सफलतया सम्पन्नवन्तः।

अस्मिन् अवसरे आयोजिते दीक्षान्त-परेड-समारोहे मुख्य-अतिथिरूपेण उप-महानिरीक्षकः विजय-सिंहः उपस्थितः आसीत्। तस्य स्वागतं द्वितीय-कमान-अधिकारी मनीष-कुमार-मीना कृतवान्। मुख्य-अतिथिना परेडस्य सलामी स्वीकृता तथा प्रशिक्षूणां अनुशासनं उत्साहश्च प्रशंसितौ। अस्मिन् अवसरे प्रशिक्षण-स्टाफः प्रशिक्षूणां परिजनाश्च अपि उपस्थिताः आसन्।

स्वीय-संबोधने उप-महानिरीक्षकः उक्तवान्— “एषा वर्दी राष्ट्रस्य सुरक्षा-अखण्डता-सम्मानानां प्रतीकः अस्ति। यूयं सर्वे कठिन-परिश्रमेण अनुशासनेन च यत् प्रशिक्षणं प्राप्तवन्तः, तत् एव भवतां सेवाकालस्य दृढा आधारशिला भविष्यति। मम विश्वासः अस्ति यत् यूयं सर्वे बलस्य गरिमां नूतन-उच्चताः प्रति नेष्यथ।”

हिन्दुस्थान समाचार