अग्निशमनसेवासप्ताहः संपन्नः, 3600तः अधिकजनानां कृते दत्तं प्रशिक्षणम्
भागलपुरम्, 22 अप्रैलमासः (हि.स.)। केन्द्रीय औद्योगिक सुरक्षा बलस्य (केऔसुब) एनटीपीसी-कहलग्रामस्य अग्निशमन-शाखया अग्नि-सुरक्षा-सप्ताहस्य अन्तिमे दिने समापन-समारोहः आयोजितः। अस्मिन् अवसरे मुख्य-अतिथिरूपेण मनोरंजन-परीदा महाप्रबन्धकः (ऑपरेशन-एवं-में
पुरस्कृत करते अतिथि


कार्यक्रम में शामिल अतिथि


भागलपुरम्, 22 अप्रैलमासः (हि.स.)।

केन्द्रीय औद्योगिक सुरक्षा बलस्य (केऔसुब) एनटीपीसी-कहलग्रामस्य अग्निशमन-शाखया अग्नि-सुरक्षा-सप्ताहस्य अन्तिमे दिने समापन-समारोहः आयोजितः।

अस्मिन् अवसरे मुख्य-अतिथिरूपेण मनोरंजन-परीदा महाप्रबन्धकः (ऑपरेशन-एवं-मेंटेनेंस) एनटीपीसी-कहलग्रामे, भारती-नन्दनः कमाण्डेन्ट् केऔसुब-इकाई एनटीपीसी-कहलग्रामे, श्रीनाथ-मारिसेट्टी जीएम-मेंटेनेंस, मो० सरफराज-नवाज डीसीएलआर कहलग्रामे, डॉ० के० के० चौधरी मुख्य-चिकित्सा-अधिकारी जीवन-ज्योति-अस्पताल-कहलग्रामे, सहायक-কমाण्डेन्ट् (अग्नि) मनीष-कुमारः, सहायक-কমाण्डेन्ट् (कार्य) गोरे-लाल-शुक्लः, विभिन्न-विद्यालयेभ्यः आगताः शिक्षकाः, बालकाः, तथा बहुसंख्यकाः संयन्त्र-कर्मचारिणः केऔसुब-बल-सदस्याश्च उपस्थिताः आसन्।

अस्मिन् अवसरे केऔसुब-अग्निशमन-शाखायाः बल-सदस्यैः उत्कृष्टं अग्नि-प्रदर्शनं कृतम्, तथा १४ अप्रैलतः आरब्धे अग्निशमन-सेवा-सप्ताहे आयोजितेषु विविध-कार्यक्रमेषु विजेतृभ्यः मुख्य-अतिथिना पुरस्काराः प्रदत्ताः।

भारती-नन्दनः कमाण्डेन्ट् केऔसुब-इकाई एनटीपीसी-कहलग्रामे उपस्थितं जनसमूहं अग्नि-सुरक्षायाः प्रति जागरूकतां वर्धयितुं सम्बोधितवान्। अस्य मुख्योद्देश्यः एनटीपीसी-कहलग्राम-परिवारस्य सर्वेषां वर्गाणां मध्ये जागरूकता-शिक्षा-आपद्-तत्परता च सुदृढीकरणम् आसीत्। गत-सप्ताहे संयन्त्रस्य सर्वे कर्मचारीणः, श्रमिकाः, केऔसुब-बल-सदस्याः, टाउनशिप-स्थित-विद्यालयानां बालकाः च अग्नि-दुर्घटनात् रक्षणस्य सावधानतायाः च विषये जागरूकतां प्राप्तवन्तः, यस्यार्थं विविध-कार्यक्रमाः आयोजिताः।

अग्नि-सुरक्षा-सप्ताहस्य उद्देश्यः सर्वान् नागरिकान् अग्नि-दुर्घटनया संभाव्यमान-क्षतेः प्रति जागरूकान् कर्तुं, तथा अग्नि-दुर्घटनानां निवारणाय अग्नि-रक्षणोपायानां विषये शिक्षां दातुम् अस्ति। सहायक-কমाण्डेन्ट् (अग्नि) द्वारा उक्तं यत् गतवर्षे केऔसुब-अग्नि-विभागेन संयन्त्रे पञ्चत्रिंशत् (३५) अग्नि-घटनाः सफलतया नियन्त्रिताः, तथा अग्निशमन-सेवा-सप्ताहे ३६०० अधिकेभ्यः जनाभ्यः अग्नि-सुरक्षा-प्रशिक्षणं दत्तम्।

अस्मिन् अवसरे मुख्य-अतिथिः मनोरंजन-परीदा महाप्रबन्धकः (ऑपरेशन-एवं-मेंटेनेंस) एनटीपीसी-कहलग्रामे जनमानसे अग्नि-दुर्घटनायाः प्रति जागरूकतां प्रसारयितुं अग्निशमन-शाखया आयोजितानां कार्यक्रमाणां कृते सर्वेषां बल-सदस्यानां उत्साहवर्धनं कृतवान्।

समापन-समारोहे अन्ते निरीक्षकः (अग्नि) जुलियस-ईश्वरी उपस्थितस्य मुख्यातिथेः, सर्वेषां महाप्रबन्धकानां, विभागाध्यक्षाणाम्, अधिकारिणां, कर्मचारिणां च प्रति धन्यवाद-ज्ञापनं कृतवान्।

---------------

हिन्दुस्थान समाचार