उपराज्यपाल सिन्हा पहलगाम आतंकी-आक्रमणे पीड़ितेभ्यः श्रद्धांजलिम् अर्पितवान्
जम्मूः, 22 अप्रैलमासः (हि.स.)। जम्मू-कश्मीरस्य उपराज्यपालः मनोज सिन्हा बुधवासरे पहलगामे घटितस्य आतङ्कवादी-आक्रमणस्य पीडितानां प्रति श्रद्धाञ्जलिं समर्पितवान् तथा निर्दोषजनानां निधनस्य विषये शोकं व्यक्तवान्, अपि च केन्द्रशासितप्रदेशात् आतङ्कवादं म
उपराज्यपाल सिन्हा पहलगाम आतंकी-आक्रमणे पीड़ितेभ्यः श्रद्धांजलिम् अर्पितवान्


जम्मूः, 22 अप्रैलमासः (हि.स.)।

जम्मू-कश्मीरस्य उपराज्यपालः मनोज सिन्हा बुधवासरे पहलगामे घटितस्य आतङ्कवादी-आक्रमणस्य पीडितानां प्रति श्रद्धाञ्जलिं समर्पितवान् तथा निर्दोषजनानां निधनस्य विषये शोकं व्यक्तवान्, अपि च केन्द्रशासितप्रदेशात् आतङ्कवादं मूलतः उन्मूलयितुं भारतस्य दृढप्रतिबद्धतां पुनरपि उद्घोषितवान्।

उपराज्यपालेन स्वस्य एकस्मिन् सन्देशे उक्तं यद् “2025 तमे वर्षे अद्य एव दिने पहलगामे घटिते भीषणे आतङ्कवादी-आक्रमणे ये निर्दोषाः जनाः स्वप्राणान् त्यक्तवन्तः, तेषां प्रति मम हार्दिकी श्रद्धाञ्जलिः। तेषां स्मृतयः अस्माकं हृदयेषु सर्वदा वर्तन्ते। मम संवेदनाः प्रार्थनाश्च तेषां परिवारैः सह सन्ति। वयं तान् कदापि न विस्मरिष्यामः, आक्रमणकर्तॄन् अपि न क्षमिष्यामः। एषः अस्माकं दृढः संकल्पः अस्ति।”

सः अग्रे अपि उक्तवान् यद् “भारतदेशः आतङ्कवादस्य विरोधे एकतया स्थितः अस्ति। वयं जम्मू-कश्मीरप्रदेशात् आतङ्कवादं समूलं नाशयितुं अटूटप्रतिबद्धतां दृढनिश्चयं च पुनः संकल्पयामः।”

---------------

हिन्दुस्थान समाचार