सपायाः राज्ये ग्रामे प्राप्ता केवलं पांच घंटात्मिका विद्युत् : ओमप्रकाश राजभरः
लखनऊ, 22 अप्रैलमासः (हि.स.)। सुहेलदेव-भारतीय-समाज-पार्टी-अध्यक्षः तथा प्रदेशस्य अल्पसंख्यक-कल्याण-मन्त्री ओम्-प्रकाश-राजभरः अवदत् यत् समाजवादी-पार्टी-अध्यक्षः अखिलेश-यादवः मतप्राप्तये प्रदेशस्य जनतां भ्रमयित्वा वञ्चयितुं प्रयतते। सः उक्तवान् यद
ओमप्रकाश राजभर


लखनऊ, 22 अप्रैलमासः (हि.स.)।

सुहेलदेव-भारतीय-समाज-पार्टी-अध्यक्षः तथा प्रदेशस्य अल्पसंख्यक-कल्याण-मन्त्री ओम्-प्रकाश-राजभरः अवदत् यत् समाजवादी-पार्टी-अध्यक्षः अखिलेश-यादवः मतप्राप्तये प्रदेशस्य जनतां भ्रमयित्वा वञ्चयितुं प्रयतते।

सः उक्तवान् यद् “अखिलेश-शासन-काले ग्रामेषु केवलं पञ्च-घण्टापर्यन्तं विद्युत्-प्रदानं भवति स्म। नगरेषु दश-घण्टापर्यन्तं विद्युत् आगच्छति स्म। चतुर्विंशतिघण्टा-विद्युत् केवलं रामपुर-इटावा-मैनपुरी-इत्येषु स्थानेषु एव लभ्यते स्म।”

समाजवादी-पार्टी-सर्वकारे सति ३००-यूनिट-विद्युत्-निःशुल्क-प्रदानस्य अखिलेश-यादवस्य घोषणायाः विषये ओम्-प्रकाश-राजभरः बुधवासरे लखनऊ-नगरे माध्यमैः सह वार्तालापं कृत्वा अवदत्— “केन मुखेन सः ३००-यूनिट-विद्युत्-प्रदानस्य विषये वदति? प्रथमं स्वकार्यकालं स्मरतु। तस्मिन् काले ट्रांसफार्मराः दह्यन्ते स्म। ग्रामवासिनः धनं सङ्गृह्य स्वयमेव दत्त्वा ट्रांसफार्मरं निर्माणं कुर्वन्ति स्म। अधुना सा स्थिति नास्ति। योगी-सरकारे चतुर्विंशतिघण्टाभ्यन्तरे ट्रांसफार्मराः परिवर्त्यन्ते। जनतायाः किञ्चित् अपि व्ययः न भवति।”

अधुना ग्रामेषु अष्टादश-घण्टापर्यन्तं विद्युत् लभ्यते, तहसील-क्षेत्रेषु विंशति-घण्टापर्यन्तं, तथा जिला-मुख्यालयेषु चतुर्विंशतिघण्टा विद्युत्-प्रदानं क्रियते इति अपि सः उक्तवान्।

राजभरः अवदत् यत् “यत् वदन्ति, तत् केवलं छलम्, वञ्चना च अस्ति। एषा समाजं भ्रमयित्वा मतप्राप्तेः योजना अस्ति।”

नारी-शक्ति-वन्दन-अधिनियमस्य विषये सः उक्तवान् यत् प्रधानमन्त्रिणः चिन्तनम् आसीत् यत् २०२९ वर्षे स्त्रीभ्यः आरक्षणं दत्त्वा ताः देशस्य मुख्यधारायां आनयेम। विपक्षेन तस्य विधेयकस्य विरोधे मतं दत्तम्, अतः तत् पारितं नाभवत्।

सः अपि अवदत् यत् यदा देशे लोकसभायाः ५४३ स्थानानि निर्मितानि तदा जनसंख्या ६८ कोटिः आसीत्, अधुना तु सा १४० कोटिः जाता। २०११-जनगणनाया आधारेण स्थानानां वृद्धिः क्रियमाणा आसीत्, किन्तु एषा बाता विपक्षाय न रोचते।

हिन्दुस्थान समाचार