उत्तरप्रदेशमाध्यमिकशिक्षापरिषद् : हाईस्कूल अथ इण्टरमीडिएट इत्यस्य परीक्षा परिणामः 23 तमे दिनांके
प्रयागराजः, 22 अप्रैलमासः (हि.स)।एशिया-प्रदेशस्य महती परीक्षा-संस्था माध्यमिक शिक्षा परिषद (यूपी-बोर्ड) इत्यस्य हाईस्कूल-तथा-इण्टरमीडिएट-परीक्षयोः परिणामः अप्रैल-मासस्य २३-तारिखे सायं चतुर्वादने प्रयागराज-स्थितात् यूपी-बोर्ड-मुख्यालयात् घोषितः भविष
यूपी बोर्ड के सचिव भगवती सिंह


प्रयागराजः, 22 अप्रैलमासः (हि.स)।एशिया-प्रदेशस्य महती परीक्षा-संस्था माध्यमिक शिक्षा परिषद (यूपी-बोर्ड) इत्यस्य हाईस्कूल-तथा-इण्टरमीडिएट-परीक्षयोः परिणामः अप्रैल-मासस्य २३-तारिखे सायं चतुर्वादने प्रयागराज-स्थितात् यूपी-बोर्ड-मुख्यालयात् घोषितः भविष्यति।

एषा सूचना यूपी-बोर्ड इत्यस्य सचिवेन भगवती-सिंहेन बुधवासरे दत्ता। तेन उक्तं यत् गुरुवासरे सायं चतुर्वादने उत्तरप्रदेशमाध्यमिकशिक्षापरिषदो निर्देशकः डॉ. महेन्द्र-देवः परीक्षाफलस्य घोषणा करिष्यति।

तेन अपि सूचितं यत् परीक्षाफलम् UPMSP official website तथा DigiLocker Results इत्येतयोः जालस्थलयोः द्रष्टुं शक्यते।

हिन्दुस्थान समाचार