Enter your Email Address to subscribe to our newsletters

मंडी, 22 अप्रैलमासः (हि.स.)। राजकीय प्राथमिक पाठशाला छाणंगे चित्रकला-कार्यक्रमस्य आयोजनम् अभवत्। शिक्षा-खण्डस्य द्रंग-1 अन्तर्गतायां राजकीय प्राथमिक पाठशाला छाणंगे बुधवासरे विश्व-पृथ्वी-दिवसः धूमधामेन आचरितः। बालकाः चित्रकला-स्लोगन-लेखनयोः माध्यमेन अधिकाधिक-वृक्षारोपणस्य तथा पृथिव्याः संरक्षणस्य संदेशं प्रदत्तवन्तः। शिक्षकः प्यारचन्दसकलानी महोदयः बालकेभ्यः पृथ्वी-दिवससम्बद्धां बहुविधां सूचनां प्रदत्तवान्।
तेन उक्तम् यत् विश्व-पृथ्वी-दिवसः प्रति-वर्षं एप्रिल-मासस्य 22 तमे दिने आचर्यते, यस्य उद्देश्यः पर्यावरण-संरक्षणस्य तथा पृथिव्याः रक्षणाय जागरूकताया वर्धनम् अस्ति। तेन उक्तम् यत् पृथ्वी-दिवसस्य आरम्भः 1970 तमे वर्षे अमेरिकादेशे अभवत्। वर्षस्य 2026 तमे अस्य विषयः अस्ति अस्माकं शक्ति: अस्माकं ग्रह: इति, यः स्वच्छ-ऊर्जायाः तथा सामूहिक-भागीदाऱ्याः उपरि बलं ददाति। तेन उक्तम् यत् पृथ्वी-दिवसस्य उद्देश्यः जलवायु-परिवर्तनम्, वर्धमानं प्रदूषणम्, जैव-विविधताया: ह्रासः, वन-विनाशः इत्यादीनां गम्भीर-समस्याः प्रति जनान् जागरूकान् कर्तुम् अस्ति।
प्यारचन्दसकलानी अवदत् यत् अयं दिवसः अस्मान् स्मारयति यत् पर्यावरणस्य स्वच्छता स्वास्थ्यं च रक्षितुं प्रत्येकस्य व्यक्तेः उत्तरदायित्वम् अस्ति। अस्मिन् अवसरः विद्यालयस्य प्रभारी शंकरदेवः अपि पृथ्वी-दिवसस्य विषये प्रकाशं कृतवान्।
---------------
हिन्दुस्थान समाचार