मुख्यमंत्री सम्राट् दिल्लीतः निवर्तितेन नीतीश कुमारेण सह अकरोत् शिष्टाचारमेलनम्
पटना, 22 अप्रैलमासः (हि.स.)। मुख्यमन्त्री सम्राट चौधरी बुधवासरे द्विदिवसीय-दिल्ली-भ्रमणात् पटना-नगरं प्रत्यागच्छत्। पटना-नगरं प्राप्त्वा सः सर्वप्रथमं पूर्व-मुख्यमन्त्रिणा तथा जदयू-दलस्य राष्ट्रिय-अध्यक्षेन नीतीश कुमार-सह मेलनंकृतवान्। नीतीश-क
नीतीश कुमार से सम्राट के मुलाकात की फाेटाे


पटना, 22 अप्रैलमासः (हि.स.)।

मुख्यमन्त्री सम्राट चौधरी बुधवासरे द्विदिवसीय-दिल्ली-भ्रमणात् पटना-नगरं प्रत्यागच्छत्। पटना-नगरं प्राप्त्वा सः सर्वप्रथमं पूर्व-मुख्यमन्त्रिणा तथा जदयू-दलस्य राष्ट्रिय-अध्यक्षेन नीतीश कुमार-सह मेलनंकृतवान्। नीतीश-कुमारः सम्राट-चौधरीं सस्नेहं स्वागतं कृतवान्। एतन्मेलनम् अत्यन्तं महत्त्वपूर्णम् इति मन्यते, यस्य मुख्यकारणं बिहार-मन्त्रिमण्डल-विस्तारः अस्ति, यस्मिन् सर्वेषां दृष्टिः निबद्धा अस्ति।

मुख्यमन्त्री सम्राट-चौधरी मङ्गलवासरे दिल्ली-नगरं गतवान्। तत्र तेन नरेन्द्र मोदी-महाभागेन सह भेंटिः कृता तथा संगठनात्मक-स्तरे अपि सः सक्रियः आसीत्। तेन भाजपायाः वरिष्ठ-नेता जेपी नड्डा-सहितैः अन्यैः नेतृभिः सह संवादः कृतः। तत्रैव सः राष्ट्रियस्वयंसेवक संघ-मुख्यालयं अपि अवलोकितवान्।

सूचनानुसारं तेन भाजपायाः राष्ट्रीय-अध्यक्षेण नितिन-नवीन-नाम्ना नेतृणा सह अपि द्विवारं मेलनंकृतं, यत्र बिहार-राज्यस्य राजनैतिक-परिस्थितिः तथा मन्त्रिमण्डल-विस्तार-विषयः चर्चितः।

मुख्यमन्त्रिणः अस्य दिल्ली-भ्रमणस्य अनन्तरं नूतन-मन्त्रिणां शपथ-ग्रहणस्य विषये अद्यापि काचित् निश्चित-तिथिः न निर्धारिता, अतः मन्त्रिमण्डल-विस्तारः विलम्बितः अस्ति। सूत्रैः उक्तं यत् भाजपायाः शीर्ष-नेतृत्वस्य व्यस्तता अस्य मुख्यं कारणं मन्यते।---------------

हिन्दुस्थान समाचार