Enter your Email Address to subscribe to our newsletters

गोरखपुर-नगरम्, २३ अप्रैलमासः (हि.स.)। वरिष्ठ-आरक्षक-अधीक्षकस्य डॉ.कोस्तुभस्य निर्देशनेन गोरखपुर-आरक्षकविभागेन सञ्चालितम् “मिलाप”-अभियानम् मानवीय-संवेदनानां सशक्तम् उदाहरणं रूपेण प्रकटितम् अस्ति। अस्य अभियानस्य अन्तर्गतं वर्षे २०२६ तमे अधुना पर्यन्तं ३१३ अपहृताः/लुप्ताः बालिकाः सकुशलं उद्धृत्य तासां परिजनैः सह मिलिताः, येन शतशः परिवारेषु पुनः हर्षः प्रत्यागतः।
आरक्षक-अधिकारिणाम् अनुसारम् एतेषु प्रकरणेषु अधिकांशाः बालिकाः प्रलोभनेन वा छलपूर्वकं गृहात् दूरं नीताः आसन्। केषुचित् प्रकरणेषु ताः अन्येषु जनपदेषु अथवा राज्येषु अपि नीताः। एतानि प्रकरणानि गम्भीरतया गृह्णन्ती गोरखपुर-आरक्षकवाभाग: शीघ्रं प्रक्रियां कृत्वा विशेष-दलानां गठनं कृतवान् तथा अन्वेषण-अभियानं प्रारब्धवान्।
“मिलाप”-अभियानस्य अन्तर्गतं आरक्षकविभागेन तकनीकी-साक्ष्याणि, दूरभाष-निरीक्षणं, सीसीटीवी-दृश्यसामग्री तथा मुखबिर-तन्त्रस्य साहाय्यं संगृह्य लुप्त-बालिकानाम् अन्वेषणं कृतम्। दलैः निरन्तरं संभाव्य-स्थानेषु निरीक्षणं कृतं तथा अनेकानि जटिल-प्रकरणानि सफलतया उद्घाटितानि।
एसएसपी डॉ.कोस्तुभः अवदत् यत् सर्वेषां थाना-प्रभारिणां प्रति स्पष्ट-निर्देशाः दत्ताः यत् अपहरण-विलुप्त-प्रकरणेषु त्वरितं अभियोगः पंजीकर्तव्यः तथा शीघ्रं कार्यवाही करणीया। सहैव पीडित-परिवारैः सह नियमितः संवादः स्थाप्य प्रगतेः सूचना दातव्या।
आरक्षकविभागस्य तत्परता सक्रियता च फलरूपेण बहुसंख्यकाः बालिकाः सकुशलं उद्धृत्य तासां परिजनभ्यः समर्पिताः। अनेकेषु प्रकरणेषु परिजनैः स्वकन्याः सुरक्षितं प्रत्यागमनं दृष्ट्वा आरक्षकं प्रति कृतज्ञता व्यक्तिता।
अस्मिन् अभियाने न केवलं अपराधिषु प्रभावी कार्यवाही कृता, अपि तु समाजे सुरक्षा-विश्वासयोः वातावरणं अपि सुदृढीकृतम्। आरक्षकै: निरन्तरं एषः संदेशः प्रदत्तः यत् नारीणां कन्यानां च सुरक्षा सर्वोच्च-प्राथमिकता अस्ति तथा एतेषु प्रकरणेषु कस्यापि प्रकारस्य उपेक्षा न सह्यते।
गोरखपुर-आरक्षकवाभागस्य “मिलाप”-अभियानम् अग्रेऽपि एवं एव निरन्तरं प्रवर्तिष्यते, येन प्रत्येकं लुप्ता कन्या सुरक्षितं स्व-परिवारं प्रति प्राप्येत तथा समाजे विधि-व्यवस्था: प्रति विश्वासः अधिकं सुदृढः भवेत्।
हिन्दुस्थान समाचार / अंशु गुप्ता