Enter your Email Address to subscribe to our newsletters


वाराणसीनगरम्, २३ अप्रैलमासः (हि.स.)। गङ्गायाः अवतरण-दिवसे (गङ्गा-सप्तमी) गुरुवासरे वाराणसी-नगरस्य दशाश्वमेध-आदिषु अन्येषु च घट्टेषु आयोजितायां विशेष-गङ्गा-आरार्तिक्यां सहभागीभवितुं श्रद्धालूनां जनतलंग: समागतः। राजा-भगीरथस्य तपस्यानन्तरं ब्रह्म-कमण्डलात् निर्गतां गङ्गां प्रति जनानां प्रगाढा श्रद्धा दृश्यते स्म।
सायंकाले जनाः मातृगङ्गां पूजयित्वा दीपदानं कृत्वा भव्य-गङ्गा-आरार्तिक्याम् उल्लासेन श्रद्धया च सहभागं कृतवन्तः। गङ्गा-सप्तम्याः अवसरे एव श्रीकाशी-विश्वनाथ-मन्दिरस्य ललिताघट्टे अपि भव्य-गङ्गा-आरार्तिकी विधिवत् सम्पन्ना अभवत्।
अस्मिन् अवसरे मन्दिरस्य अर्चकैः मन्त्रोच्चारणपूर्वकं मातृगङ्गायाः दुग्धाभिषेकः कृतः, ततः षोडशोपचार-पूजनं विधिपूर्वकं सम्पन्नम्। पूजनानन्तरं मातृगङ्गायै साटिका अर्पिता, विशेष-श्रृङ्गारश्च कृतः। उपस्थिताः श्रद्धालवः अपि स्वकीयां गाढां श्रद्धां समर्पणभावं च प्रकटितवन्तः।
सम्पूर्णे कार्यक्रमे वैदिक-मन्त्रध्वनिः, दीपानां पावन-ज्योतिः, घण्टानां मधुर-निनादः च वातावरणं अलौकिकं आध्यात्मिक-ऊर्जया च परिपूर्णं कृतवान्।
गौरवणीयं यत् वैशाख-शुक्ल-सप्तम्यां गङ्गा स्वर्गलोकात् महादेवस्य जटासु अवतरिता इति मान्यता अस्ति, अतः एषा तिथिः गङ्गा-सप्तमी इति ख्याता। अस्मिन् दिने गङ्गास्नानस्य, दान-पुण्यस्य च विशेषं महत्त्वम् अस्ति; यतः अस्यां गङ्गायां स्नानेन पापानां क्षयः, मोक्षप्राप्तिश्च इति विश्वासः अस्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता