उर्वरक-विक्रेतृणां कृते समेकित-पोषक-तत्त्व-प्रबन्धन-विषये पञ्चदश-दिवसीयः प्रशिक्षण-कार्यक्रमः प्रारब्धः
नवादा-नगरम्, २३ अप्रैलमासः (हि.स.)। जनपदस्य सोखोदेवरा-स्थिते जेपी-आश्रम-परिसरे राजेन्द्र-भवने गुरुवासरे उर्वरक-विक्रेतृणां कृते समेकित-पोषक-तत्त्व-प्रबन्धन-विषये पञ्चदश-दिवसीयः प्रशिक्षण-कार्यक्रमः शुभारब्धः। कार्यक्रमस्य उद्घाटनं कृषि-विज्ञान-केन
प्रशिक्षण में प्रतिभागी


नवादा-नगरम्, २३ अप्रैलमासः (हि.स.)। जनपदस्य सोखोदेवरा-स्थिते जेपी-आश्रम-परिसरे राजेन्द्र-भवने गुरुवासरे उर्वरक-विक्रेतृणां कृते समेकित-पोषक-तत्त्व-प्रबन्धन-विषये पञ्चदश-दिवसीयः प्रशिक्षण-कार्यक्रमः शुभारब्धः।

कार्यक्रमस्य उद्घाटनं कृषि-विज्ञान-केन्द्रस्य वरिष्ठ-वैज्ञानिक-सह-प्रधानः डॉ.जयवंत-कुमार-सिंहः, अङ्गद-कुमारः, रजत-रञ्जनः, पाठ्यक्रम-समन्वयकः डॉ.शशांक-शेखर-सिंहः इत्यादयः संयुक्तरूपेण दीप-प्रज्वलनं कृत्वा अकुर्वन्।

कृषि-विज्ञान-केन्द्रेण ग्राम-निर्माण-मण्डलेन सर्वोदय-आश्रम- सोखोदेवरा इत्यनेन सह संयुक्ततया आयोजिते अस्मिन् प्रशिक्षण-कार्यक्रमे बिहार-राज्यस्य गया, नवादा, शेखपुरा, जमुई, नालन्दा इत्यादि जनपदेभ्यः आगताः प्रायः ५० प्रतिभागिनः सहभागं कुर्वन्ति।

उद्घाटन-सत्रं सम्बोधयन्तः वक्तारः उक्तवन्तः यत् उर्वरक-विक्रेतारः केवलं विक्रेतृ-भूमिकायाम् एव सीमिताः न स्युः, किन्तु कृषि-तकनीकी-परामर्शदातारः रूपेण अपि कार्यं कुर्वन्तु। ते समेकित-पोषक-तत्त्व-प्रबन्धनस्य वैज्ञानिक-महत्त्वं प्रकाशयन्तः प्रतिभागिनः प्रति आह्वानं कृतवन्तः यत् प्रशिक्षणेन प्राप्तं ज्ञानं कृषकान् प्रति प्रेषयन्तु तथा स्थायि-कृषेः प्रवर्धनं कुर्वन्तु। कृषि-वैज्ञानिकाः प्रशिक्षणस्य उद्देश्यानां उपयोगितायाः च विषये विस्तारतः चर्चां कृत्वा वैज्ञानिक-उर्वरक-प्रबन्धनस्य क्षेत्र-स्तरे अनुप्रयोगस्य आवश्यकता अवदन्।

ते उक्तवन्तः यत् उर्वरक-विक्रेतारः कृषकाणां प्रथम-संपर्क-बिन्दवः भवन्ति, अतः तेषां तकनीकी-दक्षता अत्यावश्यकाऽस्ति। अस्मिन् अवसरे सहयोगिनः पिण्टू-पासवान्, सलोनी-कुमारी, श्रवण-कुमारः इत्यादयः अन्ये च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता