Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 23 अप्रैलमासः(हि.स.)।
रेखा गुप्ता गुरुवासरे अरुणा आसफ अली अस्पताल इत्यस्य आकस्मिकनिरीक्षणं कृतवती। अस्मिन् काले तया ओपीडी, वार्ड्, औषधिवितरणकेन्द्रं, स्वच्छताव्यवस्था, जलापूर्तिः, डिजिटलसेवाः तथा अन्ये विभागाः निरीक्षिताः। तया रोगिभिः तेषां परिजनैः च सह प्रत्यक्षसंवादः कृत्वा चिकित्सालयस्य वास्तविकस्थितिः ज्ञाता।
रोगिणां तेषां परिजनानां च अभ्यर्थनां श्रुत्वा त्वरितमेव चिकित्सालयाधिकारिभ्यः सर्वासां सुविधानां सुधारार्थं निर्देशाः दत्ताः। संवादकाले केचन वृद्धरोगिणः उक्तवन्तः यत् ते प्रातः अष्टवादनात् आरभ्य दीर्घपङ्क्तौ तिष्ठन्ति, तथापि अद्यापि तेषां क्रमः न प्राप्तः। एतत् श्रुत्वा मुख्यमन्त्री तत्क्षणमेव प्रशासनं प्रति कार्यवाहीनिर्देशं दत्त्वा असन्तोषं प्रकटितवती, उक्तवती च यत् एतादृशं कदापि न स्वीकरणीयं यत् रोगिणः विशेषतः वृद्धाः घण्टानां पर्यन्तं तिष्ठेयुः। तया पर्याप्तोपवेशनव्यवस्था सुचारु-टोकनप्रणाली च शीघ्रं स्थापयितुं निर्दिष्टम्।
निरीक्षणसमये तया वैद्यनां उपलब्धता, ओपीडी-मध्ये जनसङ्कुले, ऑनलाइन-नियोजनप्रणाल्याः टोकनव्यवस्थायाः च दोषाः दृष्टाः, येषां विषये प्रशासनं प्रति कठोरतया ताडना कृता। तया उक्तं यत् ऑनलाइन-नियोजनप्रणाली अस्ति चेत् अपि रोगिणां दीर्घप्रतीक्षा निवारणं न भवति, अतः ऑनलाइन-ऑफलाइन-प्रणाल्यौ सम्यक् एकीकर्तव्ये, येन प्रतीक्षाकालः न्यूनतमः भवेत्।
अस्थिवैद्यकविभागे अधिकभीडां दृष्ट्वा तया वैद्यैः सह कार्यप्रणालीविषये चर्चा कृता तथा गुणवत्तायुक्तचिकित्साया सुनिश्चित्यै निर्देशाः दत्ताः। संवादकाले केचन रोगिणः औषधानाम् अनुपलब्धतां बहिः क्रयस्य बाध्यतां च अभ्यर्थितवन्तः। तदा मुख्यमन्त्री स्थले एव भण्डार-पञ्जिकाया परीक्षणस्य निर्देशं दत्त्वा उक्तवती यत् औषधीनां वैक्सीनानां च उपलब्धौ “शून्यसहिष्णुता-नीतिः” अनुसर्तव्या। या औषधिः अद्य अपेक्षिता सा अद्यैव दातव्या, अन्यथा एषा गम्भीरालस्यता इति।
निरीक्षणकाले वैक्सीनेशन-विभागे प्रतिदिनं बहवः रोगिणः रेबीज् अन्येषां च इंजेक्शनानां लाभं प्राप्नुवन्ति इति ज्ञातम्। तया औषधीनां वैक्सीनानां च निरन्तर-उपलब्धतायै निर्देशाः दत्ताः।
अतिरिक्तं रोगिभिः तेषां परिजनैः च स्वच्छता, जलापूर्तिः अन्याः सुविधाः विषये अपि अभिप्रायाः दत्ताः। अनेकैः रोगिभिः शौचालयस्य जलस्य च समस्याः सूचिताः, यस्यां सति मुख्यमन्त्री अधिकारिभ्यः कठोरतया उक्तवती यत् एतानि उपेक्षितुं न शक्यन्ते। चिकित्सालये स्वच्छता, औषधि, मूलसुविधाः च सर्वथा अनिवार्याः सन्ति।
मुख्यमन्त्री चिकित्सालये व्यवस्थासुधाराय कठोरप्रशासनिकसुधारान् आदेशितवती। तया स्पष्टं कृतं यत् स्वास्थ्यसेवासु अनुशासनं उत्तरदायित्वं च सर्वोपरि स्तः। अस्य कृते वैद्य-कार्मिकाणां नियमिततां सुनिश्चित्य बायोमेट्रिक-उपस्थिति अनिवार्या कृता तथा पारदर्शितायै प्रत्येकः कर्मचारी स्वकर्तव्यकाले नामपट्टिकां धारयेत् इति नियमः स्थापितः।
अन्ते तया चिकित्सालये वर्धमानस्य हेपेटाइटिस रोगस्य विषयेन अपि चिन्ता व्यक्ता, तस्य कारणानां अन्वेषणाय निवारणाय च वैद्यैः सह विचारविमर्शं कृत्वा आवश्यकनिर्देशाः दत्ताः।
---------------
हिन्दुस्थान समाचार