Enter your Email Address to subscribe to our newsletters

नवदेहली-नगरम्, २३ अप्रैलमासः (हि.स.)। दिल्ली-राज्यस्य मुख्यमन्त्री रेखा-गुप्ता गुरुवासरे अरुणा-आसफ-अली-चिकित्सालयस्य औचक-निरीक्षणं कृतवती। निरीक्षणस्य समये तया रोगिभ्यः तेषां परिजनेभ्यश्च व्यवस्थासु तथा चिकित्सकानां उपलब्धतायां विषये सूचना गृहीता।
मुख्यमन्त्री सामाजिक-माध्यम-मञ्चे ‘एक्स’ इति नाम्नि लेखं प्रकाशितवती, यत्र सा उक्तवती यत् चिकित्सकैः, कर्मचारिभिः तथा चिकित्सालय-प्रबन्धनेन सह प्रतिपुष्टिं (फीडबैक) गृहीत्वा स्वास्थ्य-सेवाः आधुनिकाः, शीघ्राः, संवेदनशीलाः, नागरिक-केंद्रिताः च कर्तुं आवश्यक-निर्देशाः दत्ताः। अस्माकं संकल्पः अस्ति यत् दिल्ली-नगरस्य प्रत्येकं नागरिकः तादृशं स्वास्थ्य-तन्त्रं अनुभवेत् यत्र समये उपचारः लभ्येत, आधुनिक-सुविधाः उपलब्धाः स्युः, स्वच्छं वातावरणं भवेत् तथा प्रत्येकः रोगी सम्मानपूर्वकं सेवां प्राप्नुयात्।
मुख्यमन्त्री ग्रीष्म-ऋतुम् अवलोक्य चिकित्सालय-प्रशासनाय औषधानां उपलब्धता, पेयजल-व्यवस्था, स्वच्छता, रोगिणां सुविधा तथा सर्वे आवश्यक-प्रबन्धाः सर्वोच्च-प्राथमिकतया सुनिश्चिताः क्रियन्ताम् इति निर्देशं दत्तवती। प्रत्येकः नागरिकः समये उपचारं प्राप्नुयात् तथा सर्वे चिकित्सालयाः सेवा, संवेदना, विश्वासस्य च केन्द्राणि भवन्तु—इत्यस्य दिशि दिल्ली-सर्वकारः निरन्तरं कार्यं करोति।
हिन्दुस्थान समाचार / अंशु गुप्ता