गोखड़ायाम् एक भारतं श्रेष्ठ भारतमित्यस्य कार्यक्रमस्य अंतर्गतानां विविध प्रतियोगितानां सफलम् आयोजनम्
मंडी, 23 अप्रैलमासः (हि.स.)। राजकीय-वरिष्ठ-माध्यमिक-पाठशालायां गोखड़ा इत्यत्र “एकभारत-श्रेष्ठभारत-कार्यक्रमस्य” अन्तर्गतं विद्यार्थिषु राष्ट्रियैकता-सांस्कृतिकसमन्वय-पर्यावरणचेतना-रचनात्मकाभिव्यक्तीनां प्रोत्साहनार्थं वाद-विवाद-प्रतियोगिता, निबन
एक भारत श्रेष्ठ भारत कार्यक्रम के दौरान।


मंडी, 23 अप्रैलमासः (हि.स.)।

राजकीय-वरिष्ठ-माध्यमिक-पाठशालायां गोखड़ा इत्यत्र “एकभारत-श्रेष्ठभारत-कार्यक्रमस्य” अन्तर्गतं विद्यार्थिषु राष्ट्रियैकता-सांस्कृतिकसमन्वय-पर्यावरणचेतना-रचनात्मकाभिव्यक्तीनां प्रोत्साहनार्थं वाद-विवाद-प्रतियोगिता, निबन्ध-लेखन-प्रतियोगिता तथा पृथ्वी-दिवस-चित्रकला-प्रतियोगिता सफलतया आयोजिताः।

विद्यालयस्य प्रधानाचार्या सुषमा जसवाल अवदत् यत् एतासां प्रतियोगितानां आयोजनस्य सम्पूर्णा जिम्मेदारी उप-प्रधानाचार्यः वरिष्ठप्रवक्ता राजेश नंदा इत्यस्मै समर्पिता आसीत्।

वाद-विवाद-प्रतियोगितायां परिणामाः— प्रथमस्थानम्— कनिका (कक्षा +१, विवेकानन्द-हाउस)

द्वितीयस्थानम्— एकता (कक्षा +१, कल्पना-चावला-हाउस)

तृतीयस्थानम्— संजना (कक्षा +२, रामानुजम्-हाउस)

एवमेव निबन्ध-लेखन-प्रतियोगितायां— प्रथमस्थानम्— हर्षिता तथा निखिता (कक्षा १२)

द्वितीयस्थानम्— पलक-शर्मा (कक्षा ११), मानसी (कक्षा १२), मोहित (कक्षा १२)

तृतीयस्थानम्— निशा (कक्षा १२), दीपाली (कक्षा १२)

पृथ्वी-दिवस-चित्रकला-प्रतियोगितायां “पृथ्वी-संरक्षण” इति विषयः आसीत्, यस्मिन् विद्यार्थिभिः पर्यावरणसंरक्षणस्य सशक्तः प्रेरणादायकः सन्देशः प्रस्तुतः। तस्यां प्रतियोगितायाम्— प्रथमस्थानम्— मन्नत (कक्षा १०)

द्वितीयस्थानम्— प्रीति (कक्षा १०)

तृतीयस्थानम्— सिद्धार्थ (कक्षा ९)

कार्यक्रमस्य अन्ते प्रधानाचार्या सुषमा जसवाल सर्वेभ्यः विजेतृभ्यः प्रमाणपत्राणि प्रदाय तान् सम्मानितवती।

---------------

हिन्दुस्थान समाचार