डॉ. कमलेश्वर सिंहः नेशनल डेंटल कमीशन इत्यस्य डेंटल एडवाइजरी काउंसिल इत्यस्य सदस्यो नामितः
लखनऊ, 23 अप्रैलमासः (हि.स.)। किंग जॉर्ज चिकित्सा विश्वविद्यालय (केजीएमयू) इत्यस्य प्रोस्थोडॉन्टिक्सविभागस्य संकायसदस्यः प्रो. कमलेश्वर सिंह महोदयः नेशनल डेंटल कमीशन (एनडीसी), नवदिल्ली इत्यस्य डेंटल्-एडवाइजरी-काउन्सिल् सदस्यत्वेन नामनिर्दिष्टः अस्ति
डॉ. कमलेश्वर सिंह


लखनऊ, 23 अप्रैलमासः (हि.स.)। किंग जॉर्ज चिकित्सा विश्वविद्यालय (केजीएमयू) इत्यस्य प्रोस्थोडॉन्टिक्सविभागस्य संकायसदस्यः प्रो. कमलेश्वर सिंह महोदयः नेशनल डेंटल कमीशन (एनडीसी), नवदिल्ली इत्यस्य डेंटल्-एडवाइजरी-काउन्सिल् सदस्यत्वेन नामनिर्दिष्टः अस्ति।

डॉ. कमलेश्वर सिंह अधुना केजीएमयू, लखनऊ इत्यस्य प्रोस्थोडॉन्टिक्सविभागे प्रोफेसरपदे कार्यरतः अस्ति। सः स्वीयां स्नातक-स्नातकोत्तरशिक्षां तस्मादेव प्रतिष्ठितसंस्थानात् प्राप्तवान् तथा च शिक्षण-शोध-नैदानिकसेवासु निरन्तरं उत्कृष्टतां प्रदर्शितवान्।

अन्ताराष्ट्रियस्तरे मान्यतां प्राप्तः शिक्षाविद् इति रूपेण डॉ. सिंह महोदयस्य चयनः जापानदेशे आयोजितस्य जापान प्रोस्थोडॉन्टिक सोसाइटी तथा इंडियन प्रोस्थोडॉन्टिक सोसाइटी संयुक्तस्य अन्तरराष्ट्रीयवैज्ञानिकविनिमयकार्यक्रमस्य कृते अभवत्। सः “यङ्ग् बायोमेडिकल् सायन्टिस्ट्स् स्कीम्” अन्तर्गतं प्रतिष्ठितां आईसीएमआर अन्तरराष्ट्रीय-फेलोशिप् (आईसीएमआर-आईएफ) अपि प्राप्तवान्।

स्वीयैः शैक्षणिकयोगदानैः सह डॉ. सिंह रोगिणां परिचर्यायामपि सक्रियः अस्ति। तस्य विशेषज्ञता जटिलदन्तरोगप्रकरणानां पुनर्वासे अस्ति, येन उच्चस्तरीयचिकित्सा तथा रोगिसन्तोषः सुनिश्चितः भवति।

डॉ. सिंहेन राष्ट्रिय-अन्ताराष्ट्रिय-प्रतिष्ठितपत्रिकासु ६० अधिकानि शोधपत्राणि प्रकाशितानि सन्ति। सः अनेकानां स्नातकोत्तरशोधप्रबन्धानां मार्गदर्शनं कृतवान्, येन प्रोस्थोडॉन्टिक्सशिक्षा-अनुसन्धानयोः क्षेत्रे महत्त्वपूर्णं योगदानं जातम्।

हिन्दुस्थान समाचार