महिलाकांग्रेसदलस्य पोस्टकार्ड अभियानं, महिलाभ्यः 33 प्रतिशतम् आरक्षण तत्कालं प्रवर्तितुं निर्गतम्
नवदिल्ली, 23 अप्रैलमासः (हि.स.)। महिलाकाङ्ग्रेससंस्थया नारीशक्तिवन्दनाधिनियमः २०२३ शीघ्रं प्रवर्तनीयः इति माग्ध्येन अत्र गोलडाकखानस्य समीपे पोस्टकार्ड-अभियानम् आयोजितम्। अस्मिन् अवसरे महिला-प्रदर्शनकारिण्यः सरकारस्य विरुद्धं घोषणां कृत्वा हस्ता
अखिल भारतीय महिला कांग्रेस  ने बुधवार को गोल डाकखाने पर पोस्टकार्ड अभियान चलाया


नवदिल्ली, 23 अप्रैलमासः (हि.स.)।

महिलाकाङ्ग्रेससंस्थया नारीशक्तिवन्दनाधिनियमः २०२३ शीघ्रं प्रवर्तनीयः इति माग्ध्येन अत्र गोलडाकखानस्य समीपे पोस्टकार्ड-अभियानम् आयोजितम्। अस्मिन् अवसरे महिला-प्रदर्शनकारिण्यः सरकारस्य विरुद्धं घोषणां कृत्वा हस्ताक्षर-अभियानम् अपि सञ्चालितवन्त्यः।

उल्लेखनीयम् यत् अखिलभारतीयमहिलाकाङ्ग्रेससंस्थया बुधवासरे लोकसभायाः वर्तमान ५४३ आसनानां आधारेण महिलाभ्यः त्रयस्त्रिंशत्-प्रतिशत (३३%) आरक्षणस्य कार्यान्वयनार्थं देशव्यापि “पोस्टकार्ड-अभियानस्य” घोषणा कृता आसीत्।

एआईएमसी-अध्यक्षया अलकालाम्बया पत्रकारसम्मेलने उक्तम् आसीत् यत् अस्य अभियानस्य उद्देश्यं दशलक्षमहिलाः संयोज्य प्रधानमन्त्रिणं प्रति पोस्टकार्डानि प्रेषयितुम् अस्ति। एतेषु पोस्टकार्डेषु नारीशक्तिवन्दनाधिनियमः २०२३ त्वरितं प्रवर्तनीयः इति माग्धा करिष्यते।

---------------

हिन्दुस्थान समाचार