Enter your Email Address to subscribe to our newsletters

- युवराजो मीरा च खिवनीं उक्तवत्यौ टाइगर-लैंडस्थलमिति , व्याघ्राणां निवर्तनेन ‘शांत कॉरिडोर’ जातःसमृद्ध वन्य-जीव आश्रयः
भोपालम्, 23 अप्रैलमासः (हि.स.)।
मध्यप्रदेशराज्यस्य मुख्यमन्त्री मोहन यादवः अवदत् यत् स्वाभाविकरूपेण वर्धमाना व्याघ्राणां उपस्थितिः खिवनी वन्य-प्राणी अभयारण्य इत्यस्य वन्यजीवसंरक्षणस्य सफलतायाः सशक्तम् उदाहरणं कृतवती। आगामिकाले एतदभयारण्यं वन्यजीवसंरक्षणस्य इको-पर्यटनस्य च आदर्शकेन्द्रं भविष्यति।
मुख्यमन्त्री गुरुवासरे वक्तव्ये उक्तवान् यत् राज्यसरकारस्य लक्ष्यं खिवनी-क्षेत्रं दृढं व्याघ्र-आवासं प्रमुखं च इको-पर्यटनस्थलं कर्तुम् अस्ति, येन संरक्षणं पर्यटनं च नवदिशां प्राप्स्यतः।
उल्लेखनीयम् अस्ति यत् मध्यप्रदेशस्य मालवा-निमाड़-प्रदेशे स्थितेषु शुष्क-पर्णपाती-वनप्रदेशेषु स्थितं प्रायः १३४.७ वर्गकिलोमीटरपरिमितं एतत् अभयारण्यं पूर्वं केवलं रातापानी अभयारण्य इत्यादीन् विशालवनप्रदेशान् संयोजयितुं ‘संचारमार्गः’ इव मन्यते स्म, किन्तु अद्य एषः प्रदेशः व्याघ्राणां सुरक्षितप्रजननस्थलरूपेण प्रतिष्ठितः। मुख्यमन्त्री एतत् परिवर्तनं राज्यस्य सुनियोजितनीतिभिः सततसंरक्षणप्रयत्नैः च जातम् इति अभिहितवान्।
जनसम्पर्काधिकारी केके जोशी अवदत् यत् खिवनी-अभयारण्यं ‘युवराज’ ‘मीरा’ इति नाम्ना प्रसिद्धाभ्यां व्याघ्राभ्यां स्थायीवासरूपेण स्वीकृतम्, येन तस्य नवीनः परिचयः जातः। वनविभागेन ‘मीरा’ नाम्नः व्याघ्र्याः त्रयाणां शावकानां जन्म पुष्टि कृतम्, ये अधुना मातृसहिता वने सञ्चरन्ति। अधुना तत्र प्रायः द्वादश व्याघ्राः सन्ति, यत् पारिस्थितिक-पुनर्जीवनस्य स्पष्टसूचकः अस्ति।
तथा च तत्र वन्यजीवानां वर्धमानक्रियाशीलता—यथा जङ्गली-श्वानाः (ढोल), तेंदुआ, लकड़बग्घा, सियार, भालू तथा चौसिंगा इत्यादयः—एतत् स्थानं सन्तुलित-शिकार-शिकारी-श्रृंखलायाः सुदृढ-पारिस्थितिकी-तन्त्रस्य च पुनर्स्थापनस्य उत्कृष्टम् उदाहरणं कृतवन्ति।
जनसम्पर्काधिकाऱिणः उक्त्यानुसारं खिवनी-वन्यजीवसंरक्षणस्य आधारः १९८२ तमे वर्षे स्थापितः। अनन्तरं अस्य विस्तारः कृत्वा सीहोर जनपदस्य वनप्रदेशाः अपि समाविष्टाः। अधुना एषः प्रदेशः वन्यजीवानां जीवनरेखारूपेण स्थितः।
राज्यसर्वकारः अधुना ओंकारेश्वर वन्य-प्राणी अभयारण्य विकासेन एतत् संचारमार्ग-जालं सुदृढं कर्तुं प्रयतते।
खिवनी-अभयारण्यं केवलं वनप्रदेशः न, अपि तु पुनर्जीवनस्य सन्तुलनस्य नूतन-आशायाः च प्रेरणादायिनी कथा अस्ति, या मध्यप्रदेशं वन्यजीवसंरक्षणे इको-पर्यटने च नूतनपरिचयं ददाति।
---------------
हिन्दुस्थान समाचार