Enter your Email Address to subscribe to our newsletters



- मुख्यमंत्री नरयावल्यै दत्तवान्सांदीपनि विद्यालयस्य उपहारम् , विकास कार्याणां कृतं लोकार्पणम् एवं भूमिपूजनं च
भोपालम्, 23 अप्रैलमासः (हि.स.)।मध्यप्रदेशराज्यस्य मुख्यमन्त्री मोहन यादव अवदत् यत् अस्माकं संस्कृतिः मातॄणां भगिनीनां च सर्वोपरि स्थानं दातुं परम्परया प्रवृत्ता अस्ति। भगिनीनां विधानसभासु लोकसभायां च आरक्षणप्राप्तये अस्माकं सरकारः संघर्षं करोति। तासां अधिकारप्रदानाय सरकारः दृढसंकल्पिता अस्ति।
गुरुवासरे सागरजनपदस्य नरयावलीक्षेत्रे विकासकार्याणां भूमिपूजन-लोकार्पणकार्यक्रमे सः सम्बोधनं कुर्वन् आसीत्। सः अवदत् यत् नरेन्द्र मोदी सर्वान् सह गन्तुं सर्वेषां प्रति आह्वानं कृतवान्, किन्तु केचन राजनैतिकदलाः भगिनीनां अधिकारप्रदाने अनुदाराः अभवन्। पूर्वमपि भगिनीनां भरणपोषणभत्तसम्बद्धं उच्चतमन्यायालयस्य आदेशं तैः एव निराकृतम्।
मुख्यमन्त्री अवदत् यत् राज्यसरकारः मातॄणां भगिनीनां च सम्मानं कुर्वती “लाडली बहना योजना” इत्यस्य माध्यमेन तासां प्रति प्रतिमासं १५०० रूप्यकाणि प्रददाति। राज्ये १७ जनपदेषु महिला-कलेक्टराः सन्ति, तथा च दशाधिकेषु जनपदेषु महिला-अधिकारी एस्-पी-पदं वहन्ति। सागरजनपदे सांसद् महापौरौ अपि महिलायेव स्तः। राज्ये प्रमुखेषु पदेषु महिलाभ्यः उत्तरदायित्वं दीयते।
सः अवदत् यत् मातरः भगिन्यः च सर्वं विस्मर्तुं शक्नुवन्ति, परन्तु स्वापमानं कदापि न विस्मरन्ति। अतः ताभ्यः आह्वानं कृतवान् यत् अवसरप्राप्तौ सम्यक् प्रत्युत्तरं दातव्यम्। अस्माकं दृढसंकल्पः अस्ति यत् अद्य वा श्वः नरेन्द्र मोदी नेतृत्वे विधानसभायां लोकसभायां च ३३ प्रतिशतं आरक्षणं दास्यामः।
कार्यक्रमस्य आरम्भे मुख्यमन्त्री महावीरं महाराजा छत्रसाल तथा डॉ. हरिसिंह गौर प्रति नमनं कृतवान्। अस्मिन् अवसरः सः नरयावलीक्षेत्रे २७ कोटिरूप्यकव्यये निर्मितस्य सांदीपनि विद्यालयस्य लोकार्पणं कृतवान्। सः अवदत् यत् एतत् केवलं विद्यालयं न, अपि तु अस्माकं पञ्चसहस्रवर्षप्राचीनस्य धरोहरस्य प्रतीकं अस्ति। उज्जयिन्यां स्थिते सांदीपनि-आश्रमे शिक्षां प्राप्तवान् श्रीकृष्ण अस्माकं आदर्शः अस्ति।
तस्मिन् कार्यक्रमे सः ४१ कोटि ७ लक्षरूप्यकव्यये ३६ विकासकार्याणां लोकार्पणं तथा १७ कोटि ३९ लक्षरूप्यकव्यये ६२ विकासकार्याणां भूमिपूजनं कृतवान्, तथा च विभिन्नयोजनानां हितग्राहिभ्यः लाभान् वितरितवान्।
मुख्यमन्त्री अवदत् यत् राज्ये दरिद्राणां कृषकाणां युवानां नारीणां च कल्याणाय सरकारः निरन्तरं प्रयतते। कृषककल्याणवर्षे कृषकानां प्रगत्यर्थं सर्वे प्रयत्नाः क्रियन्ते। बुन्देलखण्डप्रदेशः वीराणां भूमिः अस्ति, किन्तु पूर्वं जलाभावात् कृषिक्षेत्रे हानिः अभवत्। अधुना नरेन्द्र मोदी मार्गदर्शनेन केन-बेतवा-नदीसंयोजनपरियोजना प्राप्ता अस्ति, या जनानां पेयजलसमस्यां समाधानं करिष्यति तथा कृषकानां कृते सिंचनजलम् अपि दास्यति।
सः अवदत् यत् कृषकभ्यः अल्पमूल्येन विद्युत्सम्बन्धः प्रदीयते तथा गोधूमक्रये २६२५ रूप्यकपर्यन्तं मूल्यं सह बोनसः अपि दत्तः। कृषकाणां श्रमेण अस्मिन् वर्षे गोधूमोत्पादनं वर्धितम्। राज्यसरकारः गोधूमस्य प्रत्येकं कणं क्रेतुं संकल्पिता अस्ति।
तथा सोयाबीन-उत्पादककृषकाः अपि भावान्तरभुगतानयोजनया लाभान्विताः अभवन्। “सत्यवचनं दृढकार्यं प्रेम्णा वद जय श्रीराम” इति अस्माकं सरकारस्य घोषवाक्यम् अस्ति।
सः अवदत् यत् सिंचनक्षेत्रं निरन्तरं वर्धते। नूतनाः सांदीपनि-विद्यालयाः उद्घाट्यन्ते। विकासकार्याणां कृते आवश्यके सति कृषकभूमिः अधिगृह्यते, किन्तु तेषां हिताय चतुर्गुणं प्रतिपूर्तिधनं दातुं निर्णयः कृतः। कृषकाणां आयवृद्ध्यर्थं पशुपालन-दुग्धोत्पादनयोः अपि विशेषः बलः दीयते।
अन्ते सः अवदत् यत् आधुनिकाः सांदीपनि-विद्यालयाः निजीविद्यालयान् अपि अतिक्रामन्ति। २०२५-२६ वर्षस्य परीक्षाफलेषु शासकीयविद्यालयानां छात्राः सर्वोच्चस्थानं प्राप्तवन्तः। छात्र्यः विशेषतया उत्कृष्टफलानि प्राप्तवन्त्यः। राज्यसरकारः उत्कृष्टविद्यार्थिभ्यः स्कूटी तथा लैपटॉप् अपि ददाति।
नरयावलीक्षेत्रं डॉ. हरिसिंह गौर कालात् आरभ्य शिक्षायाः पवित्रकेन्द्रं अस्ति। अत्र राजकीयविश्वविद्यालयस्य स्थापनायाः अपि प्रयत्नः क्रियते। एषः नूतनः सांदीपनि-विद्यालयः भविष्यनिर्माणस्य प्रमुखकेन्द्रं भविष्यति।
अस्मिन् कार्यक्रमे खाद्य-नागरिकापूर्तिमन्त्री गोविन्दसिंहराजपूत, सांसद् लतावानखेड़े, विधायकः प्रदीपलारिया इत्यादयः अपि उपस्थिताः आसन्, तथा च अनेके जनप्रतिनिधयः स्थानीयजनाः च समागता आसन्।
---------------
हिन्दुस्थान समाचार