Enter your Email Address to subscribe to our newsletters

आसनसोल-नगरम्, २३ अप्रैलमासः (हि.स.)। पश्चिम-बङ्गाल-राज्यस्य विधानसभानिर्वाचनस्य २०२६-वर्षीय-प्रथम-चरणस्य मतदानं पश्चिम-बर्दवान-जनपदे शान्तिपूर्णतया सम्पन्नम्। नवसु विधानसभास्थानेषु ८९ प्रतिशताधिकं मतदानं अभिलेखितम्, यत् पूर्वनिर्वाचनात् अधिकम् इति मन्यते। अस्य निष्पक्ष-शान्तिपूर्ण-निर्वाचनस्य कृते विभिन्न-राजनीतिदलानां नेतारः निर्वाचन-आयोगस्य प्रशंसां कृतवन्तः।
प्रातःकालात् आरभ्य मतदानं उत्साहेन प्रवृत्तम्, सायं यावत् मतदानकेन्द्रेषु दीर्घाः पङ्क्तयः दृष्टाः। निर्वाचन-आयोगस्य निर्देशानुसारं पङ्क्तिषु स्थितानां सर्वेषां मतदातॄणां मतदान-अवसरः प्रदत्तः। कस्यापि महती अप्रिय-घटना न अभवत्, प्रशासनस्य, केन्द्रीय-बलानां राज्य-आरक्षकविभागस्य निरीक्षणे प्रक्रिया निर्विघ्नतया सम्पन्ना।
भाजपा-जनपदाध्यक्षः देवतनु-भट्टाचार्यः अवदत् यत् एतादृशं भयमुक्तं वातावरणं प्रथमवारं दृष्टम्, येन जनाः स्वमताधिकारं स्वातन्त्र्येण उपयोजितवन्तः। अन्यदलनेतारः अपि उक्तवन्तः यत् मतदातृभ्यः निर्भयतया मतदानस्य अवसरः प्राप्तः तथा निर्वाचन-आयोगस्य कार्यप्रणाली प्रशंसार्हा अस्ति।
विशेषज्ञाः मन्यन्ते यत् उच्च-मतदान-प्रतिशतं लोकतन्त्रे जनानां जागरूकतायाः वर्धनं सूचयति। अधुना सर्वेषां दृष्टिः मतगणनायां स्थिता अस्ति, यत्र जनादेशः कस्य पक्षे अस्ति इति स्पष्टं भविष्यति।
काङ्ग्रेस-दलस्य जनपदाध्यक्षः दिवेश-चक्रवर्ती उक्तवान् यत् निर्वाचन-आयोगेन कठोर-व्यवस्था कृत्या शान्तिपूर्ण-मतदानं सुनिश्चितम्, किन्तु केषुचित् केन्द्रेषु दीर्घ-पङ्क्तिषु वृद्ध-नागरिकाणां कष्टम् अपि अभवत्।
तृणमूल-काङ्ग्रेस-दलस्य सचिवः वी-शिवदासन-दासू निर्वाचन-आयोगस्य धन्यवादं कृतवान् तथा स्वदलस्य उत्तम-प्रदर्शनस्य विश्वासं व्यक्तवान्।
माकपा-दलस्य जनपदसचिवः गौराङ्ग-चटर्जी अपि उक्तवान् यत् अधिकांश-स्थलेषु मतदानं शान्तिपूर्णम् आसीत्, यद्यपि कतिपयेषु स्थलेषु लघु-घटनाः अभवन्, तथापि समग्रतया प्रक्रिया सफलतया सम्पन्ना।
हिन्दुस्थान समाचार / अंशु गुप्ता