श्रीमद्भागवत-कथायाः श्रवणेन आत्मिक-मुक्तेः मार्गः प्रशस्तः भवति — शिवानन्द-भाई-श्री-महाराजः
जौनपुर-नगरम्, २३ अप्रैलमास: (हि.स.)। नगरस्य बी.आर.पी. इण्टर-कालेज-प्राङ्गणे बुधवासरे सप्तदिवसीय-श्रीमद्भागवत-कथायाः भव्य-शुभारम्भः अभवत्। अस्य आयोजनस्य प्रारम्भः नैमिषारण्य-क्षेत्रे सीतापुर-जनपदे स्थितस्य सनातन-उत्थान-फाउण्डेशन-संस्थापकस्य शिवानन्द
श्रीमद् भागवत कथा सुनने के लिए उपस्थित जन समूह


श्रीमद् भागवत कथा सुनने पहुंचे ब्यास पीठ पर विराजमान गुरुजी के सामने खड़े जिलाधिकारी डॉ दिनेश चंद्र सिंह सीडीओ ध्रुव खड़िया और अन्य भक्त


जौनपुर-नगरम्, २३ अप्रैलमास: (हि.स.)। नगरस्य बी.आर.पी. इण्टर-कालेज-प्राङ्गणे बुधवासरे सप्तदिवसीय-श्रीमद्भागवत-कथायाः भव्य-शुभारम्भः अभवत्। अस्य आयोजनस्य प्रारम्भः नैमिषारण्य-क्षेत्रे सीतापुर-जनपदे स्थितस्य सनातन-उत्थान-फाउण्डेशन-संस्थापकस्य शिवानन्द-भाई-श्री-महाराजस्य सान्निध्ये कृतः।

कथायाः प्रथम-दिने शिवानन्द-महाराजेन कलियुगे श्रीमद्भागवतस्य महिमा तथा संकीर्तनस्य महत्त्वं विस्तरेण प्रकाश्य प्रस्तुतम्। स: भगवत् स्तुतिं कुर्वन् भागवत-माहात्म्यस्य वर्णनं कृतवान् तथा गोकर्णस्य तस्य भ्रातुः धुन्धकारी-इत्यस्य च प्रसङ्गं श्रावितवन्तः। उक्तं च यत् धुन्धकारी स्वजीवने दुष्कर्मसु संलग्नः आसीत्, यस्य कारणात् मृत्योः अनन्तरं सः प्रेत-योनिं प्राप्तवान्। गोकर्णः स्वभ्रातुः मुक्त्यर्थं सूर्य-भगवतः निर्देशानुसारं श्रीमद्भागवत-कथायाः आयोजनं कृतवान्, यस्य श्रवणमात्रेण धुन्धकारी प्रेत-योनेः मुक्तिं प्राप्तवान्।

महाराजेन उक्तं यत् श्रीमद्भागवत-महापुराणं भगवत: श्रीकृष्णस्य लीलाभिः सम्बद्धम् अस्ति, यत् भक्ति-ज्ञान-वैराग्यस्य अमृत-स्त्रोतः अस्ति। अस्य श्रवणेन जनस्य आध्यात्मिक-विकासः भवति तथा भगवान् प्रति श्रद्धा वर्धते। स: अवदन् यत् एतस्या: पावन-कथायाः श्रवणेन मनुष्यः मृत्योः भयात् विमुक्तः भवति तथा जीवनम् सकारात्मक-परिवर्तनं प्राप्नोति।

कार्यक्रमे जनपदाधिकारी डॉ.दिनेश-चन्द्र-सिंहः तथा मुख्य-विकास-अधिकारी ध्रुव-खड़िया अपि आगत्य कथां श्रुतवन्तौ तथा आरार्तिक्यां भागं गृहीतवन्तौ। जनपदाधिकारी उक्तवान् यत् श्रीमद्भागवत-कथायाः श्रवणं परम-पुण्यदायकम् अस्ति। सः व्यासपीठे विराजमानस्य गुरुजनस्य प्रशंसां कृत्वा अवदत् यत् ज्ञानं एव सर्वोत्तमं सम्मानम् अस्ति, येषां समीपे भागवत-ज्ञानम् अस्ति तेषां स्थानं सर्वोच्चम् अस्ति। सः जनान् कथोपदेशान् स्वजीवने आचरितुं आह्वानं कृतवान्।

अस्मिन् अवसरे बी.आर.पी. इण्टर-कालेज-इत्यस्य प्रधानाचार्यः डॉ.प्रमोद-श्रीवास्तवः, पंकज-श्रीवास्तवः ‘हैप्पी’, नवनीत-श्रीवास्तवः, अंजना-सिंहः, प्रदीप-सिंहः ‘रिंकू’, मनीष-चौरसिया, ऋतुराज-सिंहः ‘छोटू’, सतीश-सिंहः तथा वरिष्ठ-पत्रकारः विश्व-प्रकाश-श्रीवास्तवः इत्यादयः अनेके श्रद्धालवः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता