जीजीएम-साइन्स-महाविद्यालये संविधान-मूल्यानां तथा नशा-मुक्तेः विषययोः द्विदिवसीयः जागरूकता-कार्यक्रमः आयोजितः
जम्मू-नगरम्, २३ अप्रैलमासः (हि.स.)। जम्मू-नगरस्य जीजीएम-साइन्स-महाविद्यालये राष्ट्रीय-सेवा-योजनायाः अन्तर्गतं छात्रेषु नागरिक-जागरूकता, संवैधानिक-मूल्यानि तथा सामाजिक-उत्तरदायित्वं प्रवर्धयितुं उद्देश्येन प्रभावशाली द्विदिवसीयः कार्यक्रमः आयोजितः।
जीजीएम साइंस कॉलेज में संविधान मूल्यों और नशा मुक्ति पर दो दिवसीय जागरूकता कार्यक्रम


जम्मू-नगरम्, २३ अप्रैलमासः (हि.स.)। जम्मू-नगरस्य जीजीएम-साइन्स-महाविद्यालये राष्ट्रीय-सेवा-योजनायाः अन्तर्गतं छात्रेषु नागरिक-जागरूकता, संवैधानिक-मूल्यानि तथा सामाजिक-उत्तरदायित्वं प्रवर्धयितुं उद्देश्येन प्रभावशाली द्विदिवसीयः कार्यक्रमः आयोजितः। अयं कार्यक्रमः डॉ.भीमराव-अम्बेडकरस्य परम्परायै समर्पितः आसीत्, यस्मिन् छात्राणां सक्रिय-सहभागिता दृष्टा। कार्यक्रमस्य आरम्भः प्राचार्येण प्रो० (डॉ.) रोमेश-कुमार-गुप्तेन उद्घाटन-सम्बोधनेन अभवत्, यत्र तेन अधिकाराणां कर्तव्याणां च सन्तुलनं उत्तरदायी-समाजस्य आधारः इति उक्तम्।

प्रथम-दिने “मौलिक-कर्तव्य बनाम मौलिक-अधिकार” इति विषये वाद-विवाद-प्रतियोगिता आयोजिता, यस्मिन् छात्रैः संवैधानिक-विषयेषु गम्भीरा अवगाहना तथा युक्तियुक्ताः तर्काः प्रस्तुताः।

द्वितीय-दिने छात्रैः समूहेषु “यूथ-संविधानं” निर्मितम्, यस्मिन् प्रस्तावना, अधिकाराः, कर्तव्याः तथा नियमाः समाविष्टाः। अस्याः क्रियायाः माध्यमेन छात्रेभ्यः लोकतान्त्रिक-प्रक्रियाणां व्यावहारिक-अनुभवः प्राप्तः। अस्यैव अनुक्रमे महाविद्यालये ‘नशा-मुक्त-भारत-अभियान’ अन्तर्गतं ड्रग-फ्री-इण्डिया इति विषये जागरूकता-व्याख्यानम् अपि आयोजितम्। मुख्य-वक्ता डॉ.संजय-कोटवालः नशाया: वर्धमान-आपदं तथा तस्य सामाजिक-मानसिक-दुष्प्रभावान् प्रकाशयामास। प्राचार्यः अपि छात्रान् नशा-मुक्त-समाज-निर्माणे सक्रिय-भूमिकां निर्वहन्तु इति आह्वानम् अकरोत्।

कार्यक्रमस्य संचालनं डॉ.शीतू-रैना कृतवती, आयोजनमध्ये महाविद्यालयस्य बहवः प्राध्यापकाः तथा बहुसंख्यकाः एनएसएस-स्वयंसेवकाः छात्राश्च उपस्थिताः आसन्। कार्यक्रमस्य समापनं समाजे जागरूकता-प्रसारणस्य संकल्पेन सह अभवत्।

हिन्दुस्थान समाचार / अंशु गुप्ता