उत्तराखंडे 53 सहायक प्रवक्तॄणां स्थायीकरणाय सहमतिः
देहरादूनम्, 23 अप्रैलमासः (हि.स.)। उत्तराखंड राज्यस्य सर्वकारेण चिकित्साशिक्षाविभागस्य अन्तर्गतं विविधेषु राजकीय-चिकित्सामहाविद्यालयेषु कार्यरताः ५३ संकायसदस्याः (सहायक-प्राध्यापकाः) स्थायीकरणाय अनुमोदनं दत्तम्। एषः निर्णयः तेषां द्विवर्षीयां अनिवा
उत्तराखंड सरकार का डीपी।


देहरादूनम्, 23 अप्रैलमासः (हि.स.)। उत्तराखंड राज्यस्य सर्वकारेण चिकित्साशिक्षाविभागस्य अन्तर्गतं विविधेषु राजकीय-चिकित्सामहाविद्यालयेषु कार्यरताः ५३ संकायसदस्याः (सहायक-प्राध्यापकाः) स्थायीकरणाय अनुमोदनं दत्तम्। एषः निर्णयः तेषां द्विवर्षीयां अनिवार्यसेवां परिवीक्षाकालं च पूर्णीकृत्य कृतः।

चिकित्सास्वास्थ्य-चिकित्साशिक्षामन्त्री अपि एतेषां सहायकप्राध्यापकानां स्थायीकरणं अनुमोदितवान्। अस्य प्रक्रियायाः अन्तर्गतं श्रीनगर मेडिकल कॉलेज इत्यस्मात् १०, दून मेडिकल कॉलेज, देहरादून इत्यस्मात् १४, हल्द्वानी मेडिकल कॉलेज इत्यस्मात् १९, अल्मोड़ा मेडिकल कॉलेज इत्यस्मात् ९, हरिद्वार मेडिकल कॉलेज इत्यस्मात् १ इति कृत्वा कुलतः ५३ संकायसदस्याः नियमितीकृताः।

अनेन निर्णयेन चिकित्सामहाविद्यालयानां शैक्षणिकसंरचना संस्थागतव्यवस्था च सुदृढा भविष्यति। तथा च चिकित्सालयेषु स्वास्थ्यसेवानां गुणस्तरः निरन्तरता च उन्नता भविष्यति।

चिकित्साशिक्षाविभागस्य मतानुसारं एषः उपक्रमः राज्ये प्राथमिक-उच्चस्तरीय-स्वास्थ्यसुविधानां सुदृढीकरणस्य दिशि महत्त्वपूर्णः अस्ति। अनेन चिकित्सकानां सेवायां स्थायित्वं प्राप्यते तथा रोगिभ्यः उत्तमचिकित्सासेवा उपलब्धा भवति।

हिन्दुस्थान समाचार