वाराणसी : अवलेश्वर महादेव मंदिरे भाजपाकार्यकर्तारोऽकुर्वन् स्वच्छताकार्यम्
वाराणसी, 23 अप्रैलमासः(हि.स.)। उत्तरप्रदेशस्य वाराणसीजिल्लायां प्रधानमन्त्रिणः नरेन्द्रमोदिनः आगमनस्य सूचनां प्राप्य गुरुवासरे जिलाध्यक्षः तथा एमएलसी हंसराजविश्वकर्मा रोहनियाक्षेत्रस्य कर्दमेश्वरमण्डलस्य शक्तिकेन्द्रे अवलेशपुरे भारतीयजनतापक्षस्य
अवलेश्वर महादेव मंदिर प्रांगण में झाड़ू लगाते भाजपा कार्यकर्ता


वाराणसी, 23 अप्रैलमासः(हि.स.)।

उत्तरप्रदेशस्य वाराणसीजिल्लायां प्रधानमन्त्रिणः नरेन्द्रमोदिनः आगमनस्य सूचनां प्राप्य गुरुवासरे जिलाध्यक्षः तथा एमएलसी हंसराजविश्वकर्मा रोहनियाक्षेत्रस्य कर्दमेश्वरमण्डलस्य शक्तिकेन्द्रे अवलेशपुरे भारतीयजनतापक्षस्य कार्यकर्तृभिः सह अवलेश्वरमहादेवमन्दिरप्राङ्गणे स्वच्छताकार्यक्रमं कृतवान्।

एमएलसी हंसराजस्य स्वच्छतादले सम्मिलिताः कार्यकर्तारः उत्साहेन मार्जनीः चलितवन्तः। मन्दिरप्राङ्गणे आगतानां श्रद्धालूनां सन्निधौ झाडूनि चलयन्तः भाजपाकार्यकर्तारः स्वच्छतायाः संकल्पं गृहीतवन्तः।

अस्मिन् अवसरे जिलाध्यक्षः हंसराजविश्वकर्मा उक्तवान् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना देशाय यः स्वच्छतासन्देशः दत्तः, तं अस्यां काश्यां वयं कार्यकर्तारः अग्रे नयन्तः अद्य अवलेश्वरमहादेवमन्दिरप्राङ्गणे स्वच्छताकार्यं कृतवन्तः। एतत् स्वच्छताकार्यं भविष्ये अपि निरन्तरं प्रवर्तिष्यते।

---------------

हिन्दुस्थान समाचार