Enter your Email Address to subscribe to our newsletters

जम्मू-नगरम्, २३ अप्रैलमासः (हि.स.)। जम्मू-नगरस्य गवर्नमेंट-गान्धी-मेमोरियल-साइन्स-महाविद्यालये वर्चुअल-लैब-नोडल-केन्द्रस्य (संख्या २०५) अन्तर्गतं आईआईटी-बॉम्बे इत्यस्य सहयोगेन एकसप्ताहात्मकः बहुविषयकः वर्चुअल्-लैब्स्-कार्यशाला-कार्यक्रमः आयोजितः।
अस्यां कार्यशालायां विभिन्न-विज्ञान-संकायानां छात्राः उत्साहपूर्वकं भागं गृहीतवन्तः। कार्यक्रमे जियोलॉजी, पर्यावरण-विज्ञानम्, इलेक्ट्रॉनिक्स, बायोटेक्नोलॉजी, बॉटनी, रसायनशास्त्रम्, भौतिकशास्त्रम् तथा कम्प्यूटर्-एप्लिकेशन्स इत्यादयः विषयाः समाविष्टाः, येन छात्रेभ्यः वर्चुअल्-प्रयोगैः सिमुलेशन-आधारित-शिक्षणेन च व्यावहारिक-अवगाहनां विकसितुं अवसरः प्राप्तः।
महाविद्यालयस्य प्राचार्यस्य प्रो० (डॉ.) रोमेश-कुमार-गुप्तस्य मार्गदर्शने आयोजितायाः अस्याः कार्यशालायाः डिजिटल-शिक्षां प्रवर्धयितुं दिशि महत्त्वपूर्णा भूमिका आसीत्। नोडल्-समन्वयकः डॉ.पङ्कज-गुप्तः कुशल-योजना-समन्वयेन सर्वे सत्राणि सुचारुरूपेण सम्पन्नानि। विभिन्न-विभागानां समन्वयकाः स्वस्व-विषयेषु छात्राणां मार्गदर्शनम् अकुर्वन्।
डॉ.नेहा-शर्मा ईवीएस-विषये, डॉ.बी.पी.सिंहः तथा प्रो० सुशील-कुमारः बॉटनी-विषये, डॉ.रोहित-भारद्वाजः जूलॉजी-विषये, डॉ.पङ्कज-गुप्तः तथा प्रो० संजय-कुमारः रसायनशास्त्र-सत्रयोः संचालनम् अकुर्वन्। भौतिकशास्त्रे डॉ.बलविन्दर-कौर, बायोटेक्नोलॉजी-विषये प्रो०किरण-बाला, डॉ.नेहा-महाजनः तथा गौरव-गुप्तः, कम्प्यूटर्-एप्लिकेशन्स्-विषये प्रो०प्रीति-गुप्ता, जियोलॉजी-विषये डॉ.अर्जुन-सिंह-राठौरः तथा इलेक्ट्रॉनिक्स-विषये प्रो० देवी-दासः सत्राणि अयोजयन्।
हिन्दुस्थान समाचार / अंशु गुप्ता