विधानसभानिर्वाचनं 26 : प्रथमचरणस्य मतदानमद्य
कोलकाता, 23 अप्रैलमासः (हि. स.)। पश्चिम बंगाल राज्ये विधानसभा-निर्वाचनस्य 2026 वर्षस्य प्रथम-चरणस्य मतदानं गुरुवासरे प्रातः सप्तवादनात् आरब्धम्। राज्यस्य षोडश-जिलेषु स्थितासु 152 विधानसभा-आसनासु मतदानं प्रचलति। मतदानं सायं षड्वादनपर्यन्तं भविष्यत
चुनाव सांकेतिक छवि


कोलकाता, 23 अप्रैलमासः (हि. स.)।

पश्चिम बंगाल राज्ये विधानसभा-निर्वाचनस्य 2026 वर्षस्य प्रथम-चरणस्य मतदानं गुरुवासरे प्रातः सप्तवादनात् आरब्धम्। राज्यस्य षोडश-जिलेषु स्थितासु 152 विधानसभा-आसनासु मतदानं प्रचलति। मतदानं सायं षड्वादनपर्यन्तं भविष्यति।

प्रथम-चरणस्य मतदानाय सम्पूर्ण-राज्ये कुलं 44,376 मतदान-केन्द्राणि निर्मितानि। निर्वाचनस्य शान्तिपूर्णं निष्पक्षं च सञ्चालनं सुनिश्चितुं केन्द्रीय-सैन्यदलानां दृढा सुरक्षा-व्यवस्था विन्यस्ता अस्ति। प्रातः मतदानस्य आरम्भात् पूर्वं बहुषु केन्द्रेषु मॉक-पोलिंग अपि कृता, यस्मिन् विभिन्न-राजनीतिक-दलानां मतदान-प्रतिनिधयः उपस्थिताः आसन्।

भारतीय निर्वाचन आयोगस्य अनुसारं, प्रथम-चरणस्य मतदाने प्रायः पञ्चलक्ष-मतदान-कर्मचारिणः नियुक्ताः सन्ति। तदतिरिक्तं नवसहस्रात् दशसहस्रपर्यन्तं मतदान-केन्द्राणि संवेदनशील-श्रेण्यां निर्दिष्टानि, यत्र अतिरिक्त-सुरक्षा-बलानि नियुक्तानि सन्ति।

अस्य मध्ये पश्चिम बर्दवान-जिलस्य जामुड़िया-प्रदेशे मतदानात् पूर्वं इलेक्ट्रॉनिक-मतदान-यन्त्रविषये विवादः उद्भूतः। विपक्ष-दलैः आरोपः कृतः यत् मार्गस्य पार्श्वे स्थितायां कस्यांचित् वाहने ईवीएम यन्त्राणि बिना-सुरक्षया स्थापितानि आसन् तथा तत्र कश्चन सुरक्षा-कर्मचारी अपि नासीत्।

निर्वाचन-आयोगः तथा प्रशासनं सम्पूर्ण-राज्ये कडक-निगरानीयुक्तया सुरक्षा-व्यवस्थया सह मतदान-प्रक्रियायाः निरन्तरं सञ्चालनं भवतीति उक्तवन्तौ।

---------------

हिन्दुस्थान समाचार