श्री श्री रविशंकर ट्रस्टद्वारा संभालयिष्यते अयोध्यायाः चतुर्ण्णां कुंडानां रक्षणम्
अयोध्या, 24 अप्रैलमासः (हि.स.)।रामनगर्याः प्रमुखकुण्डानि अधुना स्वच्छतायाः संरक्षणस्य च नूतनदिशां प्रति अग्रे गमिष्यन्ति। नगरनिगमेन धर्मगुरोः श्रीश्रीरविशङ्करस्य ट्रस्टद्वारा “श्रीश्रीरूरलडेवलपमेंटकार्यक्रमेण” सह सहमतिपत्रे हस्ताक्षराणि कृतानि अस
नगर निगम लोगो


अयोध्या, 24 अप्रैलमासः (हि.स.)।रामनगर्याः प्रमुखकुण्डानि अधुना स्वच्छतायाः संरक्षणस्य च नूतनदिशां प्रति अग्रे गमिष्यन्ति। नगरनिगमेन धर्मगुरोः श्रीश्रीरविशङ्करस्य ट्रस्टद्वारा “श्रीश्रीरूरलडेवलपमेंटकार्यक्रमेण” सह सहमतिपत्रे हस्ताक्षराणि कृतानि

अस्मिन् समझौतापत्रे संस्थायाः पक्षतः आर्ट् ऑफ् लिविङ्ग् इन्टरनेशनल् सेण्टर्, बेंगलुरु इत्यस्य अध्यक्षः प्रसन्नप्रभुः तथा नगरनिगमस्य पक्षतः अपरआयुक्तः डॉ नागेन्द्रनाथः हस्ताक्षरौ कृतवन्तौ। अस्मिन् अवसरे महापौरः महन्तगिरीशपतित्रिपाठी तथा नगरआयुक्तः जयेंद्रकुमारः अपि उपस्थितौ आस्ताम्।

नगरनिगमस्य जनसम्पर्कअधिकारी मुकेशपाण्डेयस्य अनुसारम् अस्यां योजनायां दशरथकुण्डः विद्याकुण्डः सीताकुण्डः दन्तधावनकुण्डः च अन्तर्भवन्ति। ट्रस्ट् आगामीपञ्चवर्षपर्यन्तं एतेषां कुण्डानां संरक्षणं करिष्यति।

प्राकृतिकतन्त्रेण जलशुद्धीकरणं तथा प्रकाशव्यवस्था अपि क्रियते, येन कुण्डानां स्वच्छता संवर्धिष्यते, सायंकाले च जनानां कृते उत्तमं वातावरणं निर्मास्यते।

नगरनिगमस्य मतम् अस्ति यत् एषा योजना जलसंरक्षणस्य सौन्दर्यीकरणस्य च दिशि महत्त्वपूर्णं पदं भविष्यति।

हिन्दुस्थान समाचार