मुख्यमंत्री डॉ. यादवो राष्ट्रिय पंचायती राज दिवसे अददात् शुभकामनाः
भाेपालम्, 24 अप्रैलमासः (हि.स.)। अद्य सर्वदेशे शुक्रवासरे राष्ट्रियपञ्चायतीराजदिवसः आचर्यते। अस्य अवसरस्य निमित्तेन मध्यप्रदेशस्य मुख्यमंत्री डॉ मोहन यादव देशवासिभ्यः प्रदेशवासिभ्यश्च शुभाशयाः प्रेषितवन्तः। मुख्यमन्त्री डॉ यादव सामाजिकमाध्यमे एक
मुख्यमंत्री डॉ. यादव ने राष्ट्रीय पंचायती राज दिवस पर दी शुभकामनाएं


भाेपालम्, 24 अप्रैलमासः (हि.स.)।

अद्य सर्वदेशे शुक्रवासरे राष्ट्रियपञ्चायतीराजदिवसः आचर्यते। अस्य अवसरस्य निमित्तेन मध्यप्रदेशस्य मुख्यमंत्री डॉ मोहन यादव देशवासिभ्यः प्रदेशवासिभ्यश्च शुभाशयाः प्रेषितवन्तः।

मुख्यमन्त्री डॉ यादव सामाजिकमाध्यमे एक्स इत्यत्र स्वस्य सन्देशे लिखितवान्— “राष्ट्रीयपञ्चायतीराजदिवसस्य हार्दिकाः बधायः शुभाशयाश्च। ग्रामस्वराजस्य परिकल्पनां साकारयितुं पञ्चायतीराजसंस्थाः लोकतन्त्रस्य सशक्ताः आधारभूताः एककाः सन्ति। एताः संस्थाः स्थानीयस्वशासनस्य, जनभागीदारेः, पारदर्शितायाः, डिजिटलसशक्तिकरणस्य, महिलानां सहभागितायाः तथा आत्मनिर्भरभारतस्य निर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति।”

ज्ञातव्यं यत् राष्ट्रीयपञ्चायतीराजदिवसः भारते प्रतिवर्षं अप्रैलमासस्य चतुर्विंशतितमे दिने आचर्यते, यः 1993 तमे वर्षे त्रिसप्ततितमसंविधानसंशोधनविधेयकस्य प्रवर्तनस्य स्मरणं करयति। अस्य मुख्योद्देश्यः ग्राम्यलोकतन्त्रस्य सुदृढीकरणं, ग्रामसभानां सशक्तीकरणं तथा पञ्चायतानां श्रेष्ठकार्याणां सम्माननं च अस्ति। अस्मिन् दिने देशव्यापि ग्रामविकासस्य प्रतिबद्धता पुनः उद्घोष्यते।

---------------

हिन्दुस्थान समाचार