Enter your Email Address to subscribe to our newsletters

रायपुरम्, 24 अप्रैलमासः (हि.स.)।
मुख्यमंत्री विष्णुदेव सायः अद्य शुक्रवासरे राजधानी रायपुरे आयोजिते पञ्चायतपदाधिकारीसम्मेलने सहभागी भविष्यति। निर्धारितकार्यक्रमानुसार मुख्यमंत्री अपराह्णे एकवादने पं दीनदयाल उपाध्याय ऑडिटोरियम् आगमिष्यति। मुख्यमंत्री अपराह्णे द्विवादनपर्यन्तं सम्मेलने सहभागी भविष्यति, यत्र सः पञ्चायतपदाधिकारिभिः सह संवादं करिष्यति तथा विविधयोजनानां क्रियान्वयनस्य समीक्षां करिष्यति। सम्मेलनस्य अनन्तरं मुख्यमंत्री अपराह्णे द्विवादनपञ्चदशमिनिटे स्वनिवासं प्रति प्रस्थितः भविष्यति। एतत् सम्मेलनं पञ्चायतस्तरे विकासकार्याणां गत्यर्थं तथा जनहितकारीयोजनानां प्रभावी सञ्चालनार्थं महत्त्वपूर्णं मन्यते।
---------------
हिन्दुस्थान समाचार