Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 अप्रैलमासः (हि.स.)।
दिल्ली-नगरस्य मुख्यमंत्री रेखा गुप्ता अद्य चावड़ी-बाजार-स्थिते मां बगलामुखी-मन्दिरे प्रकटोत्सव-समारोहे सहभागी अभवत्। सा मातुः श्रीचरणयोः नमस्कारं कृत्वा सर्वेषां जीवने सुख-शान्ति-समृद्धि-मङ्गलानां कामनां कृतवती।
मुख्यमन्त्री सामाजिक-माध्यम-खाते “एक्स” इति स्थले लेखं प्रकाशितवती यत् मां बगलामुखी-प्रकटोत्सवः शक्ति-सत्य-धर्म-विजयस्य महापर्व अस्ति। अयं अस्मान् प्रेरयति यत् श्रद्धया संकल्पः जायते तथा संकल्पेन सफलतायाः मार्गः निर्मीयते।
तया उक्तं यत् प्रायः द्विशत-वर्ष-प्राचीनम् एतत् दिव्य-धाम आस्था-शक्ति-सनातन-चेतनायाः तेजस्वी केन्द्रम् अस्ति। तया अस्य भव्य-आयोजनस्य कृते मन्दिर-न्यासस्य, सम्मानित-सदस्यानां, पुजारी मनीष शर्मा महोदयस्य तथा सर्वेषां श्रद्धालूनां हार्दिकाः शुभाशयाः प्रदत्ताः।
मुख्यमन्त्री उक्तवती यत् मां पीताम्बरा-देव्याः कृपया दिल्ली-नगरं निरन्तरं विकास-वैभव-प्रगतेः पथे अग्रसरं भवतु।
---------------
हिन्दुस्थान समाचार