भारतस्य परामर्शः — नागरिकान् ईरान-यात्रायाः परिहारं कर्तुं तथा तस्मात् देशात् शीघ्रं निर्गन्तुम् उपदिष्टम्
नवदिल्लीनगरम्, २४ अप्रैलमासः (हि.स.)। भारत-सर्वकारेण स्वनागरिकेभ्यः ईरान-देशस्य यात्रां न कर्तुं कठोरः परामर्शः निर्गतः। विदेश-कार्यमन्त्रालयेन उक्तं यत् वर्तमान-परिस्थितीन् दृष्ट्वा जनैः आकाशमार्गेण भूमिमार्गेण च ईरान-देशं गन्तुं परिहारः करणीयः।

विदेश-कार्यमन्त्रालयस्य परामर्शानुसारं यद्यपि ईरान-देशं प्रति सीमिताः विमान-यात्राः पुनः आरब्धाः सन्ति, तथापि वायु-क्षेत्रे प्रतिबन्धाः तथा संचालन-संबद्धाः अनिश्चितताः अद्यापि विद्यमानाः सन्ति। एतेन यात्रिणां सुरक्षायाः समस्या सम्भवति।सर्वकारेण एतत् अपि स्पष्टं कृतं यत् ये भारतीय-नागरिकाः अद्य ईरान-देशे विद्यमानाः सन्ति, ते शीघ्रातिशीघ्रं तस्मात् देशात् निर्गन्तुं परामृष्टाः सन्ति। अस्य कृते निर्दिष्टानां भूमिमार्गाणां उपयोगं कर्तुं उक्तम्, येन सुरक्षित-रीत्या देश-प्रतिनिवर्तनं सुनिश्चितं भवेत्।

परामर्शे नागरिकेभ्यः विशेषतः निर्देशः दत्तः यत् कस्याः अपि सीमायाः उल्लङ्घनात् पूर्वं ते सम्बन्धित-प्रदेशेषु स्थितैः भारतीय-दूतावासैः सह समन्वयं कुर्वन्तु। एतेन निष्क्रमण-प्रक्रिया सुरक्षित-व्यवस्थितं च कर्तुं शक्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता