Enter your Email Address to subscribe to our newsletters

राँची-नगरम्, २४ अप्रैलमासः (हि.स.)। राँची-विश्वविद्यालयस्य कुलपतिः प्रोफेसर-सरोज-शर्मा शुक्रवासरे आयोजितायां सभायाम् उक्तवती यत् शीघ्रमेव शिक्षा-विभागस्य अन्तर्गतं एम्.एड् (शिक्षा-स्नातकोत्तर-उपाधिः) अध्ययनम् अपि प्रारभ्यते। कुलपतिना शहीद-चतुष्पथ-प्रशासनिक-भवने स्थिते सम्मेलन-भवने बी.एड-महाविद्यालयानां सर्वैः प्राचार्यैः सह महत्त्वपूर्णा सभाम् आयोज्य एष: निर्णयः कृतः।
अस्यां सभायां प्राचार्यैः स्वस्व-महाविद्यालयानां पक्षतः सञ्चालितानां आउटरीच-कार्यक्रमाणां, शैक्षिक-उपक्रमाणां तथा बी.एड्-पाठ्यक्रमस्य (सिलेबसस्य) अद्यतन-सम्बद्धाः विचारा: अपि प्रस्तुताः। अस्मिन् अवसरे शिक्षायाः गुणवत्तायाः उन्नयनं तथा समसामयिक-आवश्यकतानुसारं पाठ्यक्रमे परिवर्तनम् इति विषयेषु विशेषतः चर्चा कृता।
एम्.एड्-कार्यक्रमस्य सन्दर्भे कुलपतिः प्रोफेसर-सरोज-शर्मा अवदत् यत् राँची-विश्वविद्यालये शीघ्रमेव शिक्षा-विभागस्य स्थापना-प्रक्रिया आरभ्यते, यस्य अन्तर्गतं एम्.एड्-कार्यक्रमः सञ्चालितः भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता