Enter your Email Address to subscribe to our newsletters


कन्नौज-नगरम्, २४ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य कन्नौज-जनपदस्य प्रभारी-मन्त्रिणी तथा राज्यस्य उच्च-शिक्षा-राज्यमन्त्रिणी रजनी-तिवारिण: अध्यक्षतायां शुक्रवासरे कलेक्ट्रेट-गान्धी-सभागारे विकास-कार्याणां समीक्षा-सभा अभवत्। राष्ट्रीय-पंचायती-राज-दिवसावसरे पंचायत-कल्याण-कोषतः ग्राम-पञ्चायत-परसपुरस्य प्रधानाय १० लक्ष-रूप्यकाणि तथा मवई-विलवारी-बीलमपुर-ग्रामयोः सदस्याभ्यां ०२-०२ लक्ष-रूप्यकाणां साहाय्य-धनराशेः डेमो-चेक् मन्त्रिण्या वितरितः।
मुख्यमन्त्री-पञ्चायत-प्रोत्साहन-पुरस्कार-अन्तर्गतं उत्कृष्ट-कार्यं कृतवत्यै ग्राम-पञ्चायत-गुखरू प्रथम-पुरस्कारः तथा ग्राम-पञ्चायत-सलेमपुर द्वितीय-पुरस्कारः दत्तः। मन्त्रिण्या ताभ्यां अङ्गवस्त्रादिभिः सह सम्माननं कृतम्।
अस्मिन् अवसरे मुख्य-सेविकाभ्यः—शिवानी, नीति-तिवारी, सोनाक्षी, शिवानी-सेजवार, नेहा-गुप्ता, प्रीती-गौतम—तथा आङ्गनवाडी-कार्यकर्त्रीभ्यः—पूनम-द्विवेदी, शिखा-द्विवेदी, निधि-शुक्ला, गीता-शुक्ला, सविता-गुप्ता, संगीता-कटियार—स्मार्ट-फोन-यन्त्राणि वितरितानि। एवं क्रमशः आङ्गनवाडी-सहायिकाभ्यः—सोनाली-पाल, विशाखा, साधना, नेहा, ज्योति—नियुक्ति-पत्राणि अपि प्रदत्तानि।
सभायां उप-निदेशक-कृषिणा उक्तं यत् कन्नौज-जनपदे उर्वरकाणां पर्याप्त-उपलब्धता अस्ति। ७९ निजी-खाद-दुकानेषु उर्वरकाणि आपूर्तानि। तिर्वा-विधानसभा-क्षेत्रस्य विधायकः कैलाश-राजपूतः उक्तवान् यत् शासनस्य इच्छानुसारं कार्यं क्रियताम्, कस्यापि उपभोक्तुः गृहे तस्य अनुमतिं विना स्मार्ट-मीटर-यन्त्राणि न स्थाप्यन्ताम्। अद्यावधि जनपदे ८२ सहस्राणि स्मार्ट-मीटर-यन्त्राणि स्थापितानि सन्ति।
अस्यां सभायां जनपदाधिकारी आशुतोष-मोहन-अग्निहोत्री, आरक्षक-अधीक्षकः विनोद-कुमारः, मुख्य-चिकित्सा-अधिकारी डॉ.स्वदेश-गुप्तः इत्यादयः सम्बन्धित-अधिकारिणः जनप्रतिनिधयः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता