Enter your Email Address to subscribe to our newsletters

हमीरपुर-नगरम्, २४ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-राज्यस्य हमीरपुर-जनपदस्य सुमेरपुर-थाना-क्षेत्रे बिरखेरा-ग्रामपञ्चायते कडोरन-नद्याः उपरि ४१७.२७-लक्ष-रूप्यक-व्ययेन निर्मीयमाणस्य रपटस्य शुक्रवासरे सदर-विधायकः भूमिपूजनं कृत्वा कार्यस्य शुभारम्भं कृतवान्। अस्य निर्माणं लोकनिर्माण-विभागेन क्रियते।
अस्य रपटस्य निर्माणेन द्वादश-ग्रामाणां जनाः लाभान्विताः भविष्यन्ति। रपटस्य निर्माणानन्तरं सिसोलर-कैथी-मार्गेण सह प्रत्यक्ष-संबन्धः भविष्यति। अस्य निर्माणेन जनानां बान्दा-जनपदं प्रति गमनं सुलभं भविष्यति तथा च प्रायः ३० किलोमीटर-परिमितात् अतिरिक्त-परिवर्तन-मार्गात् मोक्षः भविष्यति। सदर-विधायकस्य डॉमनोज-कुमार-प्रजापतेः प्रयासेन बिरखेरा-ग्रामे कडोरन-नद्यां रपटेन सह बिरखेरा-त: सिसोलर-मार्ग-पर्यन्तं मार्ग-निर्माणस्य मार्गः प्रशस्तः अभवत्।
भूमिपूजन-समये ग्रामप्रधानः अशोक-कुमार-यादवः, अजयपाल-साहू, पूर्व-प्रधानः बिहारीलाल-प्रजापति, लोकनिर्माण-विभागस्य सहायक-अभियन्ता सत्यपाल-सिंहः, खण्ड-विकास-अधिकारी रिजवान-अहमदः, एडीओ-पञ्चायत् सुरेश-कुमारः, पञ्चायत्-सचिवः संजय-सिंहः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता