पद्म पुरस्कारस्य 2027 कृते नामांकनम् आमंत्रितं, 31 जुलाई अंतिमतिथिः
नैनीतालम्, 24 अप्रैलमासः (हि.स.)। भारत-सर्वकारेण पद्म-विभूषण, पद्म-भूषण तथा पद्म-श्री इत्यादीनां प्रतिष्ठित-नागरिक-सम्मानानां कृते वर्ष २०२७ निमित्तं नामांकनानि आमन्त्रितानि सन्ति। वर्ष १९५४ आरभ्य प्रदीयमानाः एते पुरस्काराः कला-साहित्य-शिक्षा-विज
Suchana News


नैनीतालम्, 24 अप्रैलमासः (हि.स.)।

भारत-सर्वकारेण पद्म-विभूषण, पद्म-भूषण तथा पद्म-श्री इत्यादीनां प्रतिष्ठित-नागरिक-सम्मानानां कृते वर्ष २०२७ निमित्तं नामांकनानि आमन्त्रितानि सन्ति। वर्ष १९५४ आरभ्य प्रदीयमानाः एते पुरस्काराः कला-साहित्य-शिक्षा-विज्ञान-चिकित्सा-क्रीडा-समाज-सेवा-लोक-प्रशासन-व्यापार-उद्योग-आदिषु विविध-क्षेत्रेषु विशिष्ट-योगदानं दत्तवन्तः व्यक्तयः प्रति प्रदीयन्ते।

जिलाधिकारी ललित मोहन रयाल महोदयेन नैनीताल-जनपदस्य व्यक्तिभ्यः संस्थाभ्यश्च अपील कृतम् यत् ते पात्र-व्यक्तीनां नामांकनानि राष्ट्रिय-पुरस्कार-पटल-माध्यमेन ऑनलाइन-रूपेण प्रस्तुतयन्तु। नामांकन-प्रक्रियायाः पारदर्शिता-व्यापकता च सुनिश्चित्य विभागेभ्यः संस्थाभ्यश्च योग्य-व्यक्तीनां परिचयं कृत्वा तेषां सिफारिशा कर्तुं निर्दिष्टम्।

निर्देशानुसारं नामांकन-समये उपलब्धीनां जन-सेवायाः च विस्तृत-विवरणं दातुम् अनिवार्यम्। महिला-वर्गस्य, अनुसूचित-जाति-जनजाति-वर्गस्य, दिव्याङ्ग-जनानां तथा समाजस्य वञ्चित-वर्गेषु सम्बद्धानां प्रतिभाशालिनां व्यक्तीनां विशेषतया प्रोत्साहनं दास्यते।

नामांकनस्य अन्तिम-तिथिः ३१-जुलाई २०२६ इति निर्धारिता अस्ति।

हिन्दुस्थान समाचार