Enter your Email Address to subscribe to our newsletters

प्रयागराज-नगरम्, २४ अप्रैलमासः (हि.स.)। उत्तरप्रदेश-आरक्षक-नियुक्ति-प्रोन्नति-संघेन २५, २६ तथा २७ अप्रैल-दिनाङ्केषु आयोज्यमानायाः यूपी-होमगार्ड-परीक्षा-२०२६ सम्बन्धे परीक्षार्थिनां संभावित-अधिक-सम्मर्दं दृष्ट्वा प्रयागराज-मण्डले विशेष-सज्जा: क्रियन्ते। यात्रिणां परीक्षार्थिनां च सुरक्षित-सुगम-सुविधाजनक-यात्रा-सौविध्यानां सुनिश्चित्यर्थं मण्डलेन विभिन्न-दिशासु ‘एग्जाम्-स्पेशल्’-नामक-विशेष-रेलयानानां संचालनं क्रियते।
एतां सूचनां जनसम्पर्क-अधिकारी अमित-कुमार-सिंहः शुक्रवासरे प्रदत्तवान्। तेन उक्तं यत् मण्डल-प्रशासनेन परीक्षा-दिवसेषु प्रमुख-स्थानकेषु अतिरिक्त-सम्मर्द-व्यवस्थापनं, चिटिका-व्यवस्था, सुरक्षा-व्यवस्था तथा यात्री-सुविधार्थं विशेष-प्रबन्धाः कृताः सन्ति। आवश्यकता-अनुसारं रेलयानानां विस्तारः, अतिरिक्त-कोच-संयोजनं तथा विशेष-रेलयान-प्रचालनं अपि करिष्यते। परीक्षार्थिनां सुगम-आवागमन-सुनिश्चित्यर्थं एताः व्यवस्थाः सम्यक् रूपेण विनियोजिताः सन्ति।
तेन अपि सूचितं यत् मण्डलान्तर्गत-प्रमुख-स्थानकेषु—प्रयागराज-जङ्क्शन, कानपुर-केन्द्रीय-स्थानकम्, अलीगढ़-जङ्क्शन, टूण्डला, इटावा, मैनपुरी इत्यादिषु—विशेष-निगराणी-व्यवस्था तथा यात्रि-सहायार्थं अधिकारिणः कर्मकराश्च निर्देशिताः सन्ति। सीसीटीवी-कैमरा-यन्त्रैः स्थानक-गतिविधीनां निरन्तरं निरीक्षणं करिष्यते। ‘वार-रूम’-व्यवस्थया सर्वेषां स्थानकानां स्थितेः सततं पर्यवेक्षणं भविष्यति, येन आवश्यकतायां शीघ्र-कार्यवाही कर्तुं शक्येत।
जनसम्पर्क-अधिकारी उक्तवान् यत् प्रयागराज-मण्डल-क्षेत्रे समग्रतः १० विशेष-रेलयानानां संचालनं प्रस्तावितम् अस्ति। एतानि रेलयानानि २५, २६ तथा २७ अप्रैल-दिनेषु विभिन्न-मार्गेषु सञ्चालितानि भविष्यन्ति। विशेष-रेलयानानां रेक्-मण्डले सज्जीकृताः सन्ति, येन आवश्यकतायां शीघ्रं संचालनं कर्तुं शक्यते। आवश्यकता-प्राप्तौ ५१९०१-५१९०२, ५१९०३-५१९०४ तथा ५१९०५-५१९०६ क्रमाङ्कितेषु रेलयानेषु कोच-सङ्ख्या वर्धयिष्यते।
तथैव ६४५९४ कानपुर-फतेहपुर-‘मेमू’-रेलयानं सूबेदारगञ्ज-पर्यन्तं, ६४६०४ इटावा-कानपुर-‘मेमू’ लखनऊ-पर्यन्तं, ६४५८४ दिल्ली-टूण्डला-‘मेमू’ गोविन्दपुरी-पर्यन्तं तथा ६४६२३ आगरा-मैनपुरी-‘मेमू’ फर्रुखाबाद-पर्यन्तं विस्तारितं करिष्यते।
स्थानकेषु चिटिका-वितरण-स्थानेषु अतिरिक्त-कर्मचारिणः, पृष्टापृष्ट-कक्षाः, उद्घोषणा-प्रणाली, सहायताकेन्द्रम्, आरपीएफ तथा जीआरपी-बलस्य अतिरिक्त-नियोजनं करिष्यते। प्रयागराज-मण्डलेन सर्वेभ्यः परीक्षार्थिभ्यः निवेदनं कृतं यत् ते समये स्थानकं प्राप्नुयुः, वैध-चिटिकया सह यात्रां कुर्वन्तु तथा रेल-प्रशासनस्य निर्देशान् पालनं कुर्वन्तु।
हिन्दुस्थान समाचार / अंशु गुप्ता