Enter your Email Address to subscribe to our newsletters

महाराजगंज/लखनऊनगरम्, २३ अप्रैलमासः (हि.स.)। उत्तरप्रदेशस्य महाराजगंज-जनपदात् नेपालदेशं तीर्थयात्रां कर्तुं गतानां विंशतिः श्रद्धालूनां बस्-यानम् तत्र प्यूठान-जनपदे स्वर्गद्वारी-निकटे गुरुवासरे गभीर-गर्ते पतितम्। अस्मिन् दुःखद-अपघाते एका महिला तथा एका बालिका मृत्युम् आपन्ने। अन्ये सर्वे आहताः लुम्बिनी-सिटी-चिकित्सालये प्रविष्टाः सन्ति। घटनाकाले उक्ताः जनाः नेपालदेशीय-बस-याने आरूढाः आसन् तथा चालकः अपि तत्रैव देशीयः आसीत्, एवं प्रकारेण बस-याने एकविंशतिः जनाः आरूढाः आसन्। अस्याः घटनायाः सूचना प्राप्तमात्रेण मुख्यमन्त्री योगी-आदित्यनाथः गभीरं दुःखं व्यक्तवान्। तस्य निर्देशानुसारं प्रदेशस्य नागरिकाणां साहाय्यार्थं चिकित्सक-दलम् दश-अम्बुलेन्स-सहितं नेपालदेशं प्रति प्रस्थितम्। एतत् विवरणं महाराजगंज-जनपदस्य जनपदाधिकारी सन्तोषकुमार-शर्मा उक्तवान्।
जनपदाधिकारी उक्तवान् यत् जनपदस्य सदर-तहसील-अन्तर्गतस्य सेवा-राजा-ग्रामे निवसन्तः विंशतिः नागरिकाः तीर्थयात्रार्थं नेपालदेशं गतवन्तः आसन्। अस्मिन् अपघाते आहतान् चालकेन सह एकविंशतिः जनान् त्वरितं रूपन्देही-जनपदस्य मुख्य-जनपदधिकारिणा सह संवादं कृत्वा लुम्बिनी-सिटी-चिकित्सालये प्रवेशिताः। उद्धार-कार्याय एसडीएम् नवीन-प्रसादः घटनास्थलं प्रेषितः अस्ति तथा एडीएम् (एफ/आर) सोनौली-स्थाने शिविरं कृत्वा नेपाली-प्रशासनेन सह समन्वयम् सुनिश्चितं करोति। घटनास्थले त्वरितं चत्वारः एडवांस-लाइफ-सपोर्ट्-अम्बुलेन्स-सहिताः दश-अम्बुलेन्साः चिकित्सक-दलेन सह प्रेषिताः।
अस्मिन् अपघाते महिला निरमा-मौर्या (३०) तथा बालिका काव्या-मौर्या इत्येतयोः मृत्युः अभवत् इति दुःखद-सूचना प्राप्ता। अन्येषां आहतानां चिकित्सा प्रवर्तते। जनपदाधिकारी उक्तवान् यत् महाराजगंज-जनपदस्य जनपद-चिकित्सालये तथा चिकित्सा-महाविद्यालये चिकित्सक-दलम् उच्च-सतर्कतायां स्थापितम् अस्ति तथा आहतानां कृते शय्याः आरक्षिताः सन्ति। नेपाल-प्रशासनेन अपि आवश्यक-सहयोगाः प्रदीयन्ते। जनपदाधिकारी उक्तवान् यत् घटनासम्बन्धे निरन्तरं नेपाल-प्रशासनेन सह संवादः क्रियते। आहतानां मृतकानां च परिजनान् नेपालं नेतुं सर्वाः आवश्यक-व्यवस्थाः सुनिश्चिताः सन्ति। जनपदाधिकारी आहतानां मृतकानां च परिजनान् प्रति संवेदनां व्यक्तवान्।
मुख्यमन्त्री-योगी-आदित्यनाथेन दुःखं व्यक्तम्, आर्थिक-सहाय्यस्य घोषणा
मुख्यमन्त्री-योगी-आदित्यनाथः नेपालदेशे घटितस्य अस्य अपघातस्य संज्ञानम् अकरोत्। सः मृतकानां परिजनान् प्रति स्वसंवेदनां व्यक्तवान्। मुख्यमन्त्री मृतकानां परिजनान् प्रति द्वि-द्वि-लक्ष-रूप्यकाणां आर्थिक-सहाय्यस्य घोषणां कृतवान्। तथैव आहतानाम् उत्तम-चिकित्सायाः व्यवस्था तथा आर्थिक-सहाय्यस्य अपि घोषणा कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता