Enter your Email Address to subscribe to our newsletters

कानपुरम्, 24 अप्रैलमासः (हि.स.)।समाजवादीपार्टी इत्यस्य सांसदः नरेशउत्तमस्य गृहे जातः आक्रमणः लोकतान्त्रिकव्यवस्थायाः जनप्रतिनिधेः सम्मानस्य च प्रत्यक्षः प्रहारः अस्ति। एतादृशाः घटनाः कानूनव्यवस्थायाः विषये प्रश्नान् उद्भावयन्ति तथा दोषिषु कठोरकार्यवाही अत्यावश्यकाऽस्ति। दिव्यांशहत्याकाण्डस्य उद्घाटनं जातम् अस्ति, किन्तु पीडितपरिवारस्य न्यायप्राप्तिः अपेक्षिता। सपा कार्यकर्तारः पीडितानां पक्षे स्थिताः सन्ति तथा न्यायस्य संग्रामः अनवरतः भविष्यति। कानूनस्य समरूपपालनमेव लोकतन्त्रं सुदृढं करोति। एतानि वचनानि शुक्रवासरे पूर्वसांसदः राजारामपाल उक्तवान्।
जनपदे समाजवादीपार्टी प्रतिनिधिमण्डलेन अद्य पुलिसआयुक्तः रघुबीरलालाय राष्ट्रपतेः नाम संबोधितं मांगपत्रं समर्प्य सांसदः नरेशउत्तमपटेलस्य आवासे जातां घटनां प्रमुखविषयरूपेण प्रस्तुतम्। सपा नेतारः एतां घटनां गंभीरां मन्यमानाः दोषिणां विरुद्धं कठोरकार्यवाहीं याचितवन्तः।
मांगपत्रे उक्तं यत् 17 अप्रैल दिवसे पूर्वसांसदस्य नरेशउत्तमपटेलस्य दामोदरनगर बर्रा स्थिते गृहे तस्य अनुपस्थितौ भाजपा सम्बन्धिनः जनाः महिलाः अग्रे कृत्वा गालीगलौजं धमकीं च कृतवन्तः तथा बलात् गृहप्रवेशस्य प्रयासः अपि कृतः। आरोपः अस्ति यत् गृहे बहिः स्थिताः पोस्टरबैनराः विदारिताः, नामपट्टिकायाः अपमानः कृतः तथा महापुरुषाणां चित्राणां अनादरः कृतः। सपा एतत् न केवलं आपराधिकघटना अपि तु जनप्रतिनिधेः अधिकाराणां सम्मानस्य च उल्लङ्घनं मन्यते।
सपा नेतॄणां कथनानुसारं घटनाकाले पुलिसस्य उपस्थितौ अपि उपद्रवः अभवत्, येन कानूनव्यवस्थायाः स्थितिः अपि संशयास्पदा जाता। पार्टी सम्पूर्णेऽस्मिन् प्रकरणे संलग्नानां जनानां पहचानं कृत्वा तेषु कड़ी कानूनीकार्यवाहीं कर्तुं याचते।
दिव्यांशहत्याकाण्डस्य विषये सपा प्रतिनिधिमण्डलम् अवदत् यत् प्रकरणस्य उद्घाटनं सम्पन्नम् अस्ति तथा कार्यकर्तारः पीडितपरिवारं मिलित्वा संवेदनां प्रकटितवन्तः। ते दोषिणां कठोरदण्डस्य आवश्यकतां पुनः अपि बलपूर्वकं उक्तवन्तः।
अस्मिन् अवसरे विधायकः अमिताभबाजपेयी अवदत् यत् यथा विपक्षीयेषु जनासु शीघ्रकार्यवाही क्रियते तथा एव सत्तापक्षसम्बद्धेषु अपि समरूपेण कानूनस्य पालनं भवेत्। कस्यापि प्रकारस्य हिंसा अभद्रता च न सहनीया।
एतस्मिन् सन्दर्भे विधायकः नसीमसोलंकी अमिताभबाजपेयी हसनरूमी पूर्वसांसदः राजारामपाल पूर्वविधायकः इरफानसोलंकी सतीशनिगम पूर्वविधायकप्रत्याशी फतेहबहादुरगिल तथा पार्षदः अर्पितयादव इत्यादयः अनेकाः नेतारः उपस्थिताः आसन्। प्रतिनिधिमण्डलेन स्पष्टं कृतं यत् यदि कार्यवाही न भविष्यति तर्हि आन्दोलनं तीव्रं करिष्यते।
हिन्दुस्थान समाचार