प्रथम-चरणस्य मतदानानन्तरं अमितशाहः भीतः अस्ति इति शशि पांजा उक्तवती
कोलकाता-नगरम्, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्यस्य मन्त्रिणी शशि पांजा शुक्रवासरे केन्द्रीय-गृहमन्त्रिणं अमितशाहं प्रति तीक्ष्णम् आक्रमणं कृत्वा उक्तवती यत् प्रथम-चरणस्य मतदाने जनानां महती सहभागिता तथा तृणमूल कांग्रेस-दलस्य विजयस्य संकेताः द
पश्चिम बंगाल सरकार की मंत्री शशि पांजा


कोलकाता-नगरम्, २४ अप्रैलमासः (हि.स.)। पश्चिमबङ्ग-राज्यस्य मन्त्रिणी शशि पांजा शुक्रवासरे केन्द्रीय-गृहमन्त्रिणं अमितशाहं प्रति तीक्ष्णम् आक्रमणं कृत्वा उक्तवती यत् प्रथम-चरणस्य मतदाने जनानां महती सहभागिता तथा तृणमूल कांग्रेस-दलस्य विजयस्य संकेताः दृष्ट्वा भारतीय-जनतापक्ष-शिबिरे भय: (उत्कण्ठा) प्रसृत: अस्ति। सा अवदत् यत् अस्य कारणेनैव अमितशाह: निराशानां कार्यकर्तॄणां मनोबलं वर्धयितुं प्रयासं कुर्वन् अस्ति।

शशि पांजा उक्तवती यत् प्रथम-चरणस्य मतदानानन्तरं केन्द्रीय-गृहमन्त्री अत्यन्तं चिन्तितः दृश्यते। तस्याः मतानुसारं भाजपा निर्वाचन-आयोगं तथा केन्द्रीय-बलानि उपयुज्य कागदपत्र-परीक्षणस्य नाम्ना मतदातॄणां मध्ये भयस्य वातावरणं निर्मातुं प्रयतते, यतः दलं ज्ञातवान् यत् बङ्गाले तृणमूलकांग्रेस: पुनः सत्तां प्रतिनिवर्तिष्यते।

सा उक्तवती यत् एतत् निर्वाचनं विरोधस्य निर्वाचनम् अस्ति तथा जनाः स्पष्टतया तृणमूलकांग्रेस-पक्षे मतदानं कृतवन्तः। तस्याः अनुसारं मतदाता-सूची-पुनरीक्षण-प्रक्रियायाः विरोधे अपि जनाः मतदानेन स्वसन्देशं दत्तवन्तः।

मन्त्रिणी आरोपं कृतवती यत् भाजपा स्वस्य पराजयं स्पष्टतया पश्यति, अतः निराशा-भययोः वातावरणे केन्द्रीय-गृहमन्त्री पत्रकार-वार्तां कृत्वा कार्यकर्तॄणां उत्साहं वर्धयितुं बाध्यः भवति।

सा अपि उक्तवती यत् देशस्य गृहमन्त्री अधुना स्वस्य संवैधानिक-कर्तव्येभ्यः अधिकं पश्चिमबङ्गे भाजपा-दलस्य पूर्णकालिक-कार्यकर्तेव सक्रियः दृश्यते।

अन्ते सा उक्तवती यत् तृणमूलकांग्रेसपक्ष: स्वस्य विजयस्य विषये पूर्णतया आश्वस्ता अस्ति तथा जनाः पुनः अपि मुख्यमन्त्री ममता-बनर्जी-नेतृत्वे विश्वासं प्रदर्शयिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता