Enter your Email Address to subscribe to our newsletters



पूर्णिया-नगरम्, २४ अप्रैलमासः (हि.स.)। सर्व-हिमालयन-अनुसन्धान-संस्थया आयोजितस्य त्रिदिवसीयस्य “ज्ञान-सङ्गम-साहित्य-सांस्कृतिक-महोत्सवस्य” शुभारम्भः विद्या-विहार-आवासीय-विद्यालयस्य रमेशचन्द्र-मिश्र-सभागारे अद्य विधिवत् दीप-प्रज्वलनेन कृतः। अस्मिन् अवसरे मृत्युंजय-कुमार-सिंहः, प्रो.मणिन्द्रनाथ-ठाकुरः, प्रो.रत्नेश्वर-मिश्रः, डॉ.के.श्रीनिवास-रावः, प्रो.देवेन्द्र-कुमार-चौबे, सन्तोष-सिंहः, राजेश-मिश्रः, गिरिन्द्रनाथ-झा, रंजीत-कुमार-पॉल इत्यादयः उपस्थिताः आसन्।
महोत्सवस्य अतिथिनां स्वागतं विद्या-विहार-समूहस्य राजेश-मिश्रेण, सर्व-हिमालयन-अनुसन्धान-संस्थायाः डॉ.रमणेन च कृतम्। उद्घाटन-सत्रस्य आरम्भः डॉ.मदनेश्वर-मिश्र: तथा डॉ.श्यामानन्द-सिंहयोः तैलचित्रयोः पुष्पाञ्जलिं समर्प्य अभवत्। स्वागत-अभिभाषणे प्रो. मणिन्द्रनाथ-ठाकुरः उक्तवान् यत् पूर्णिया-भूमौ विशेषा सुगन्धा अस्ति, या जनान् प्रेरयति यत् ते विश्वस्य यत्र कुत्रापि वसन्तः अपि पूर्णियायाः उन्नतिं कुर्वन्ति। अस्मात् साहित्य-महोत्सवात् वयं श्रेष्ठान् मानवीयान् गुणान् स्वीकरिष्यामः इति सः अवदत्।
प्रो. मदनेश्वर-मिश्रस्य स्मृतौ आयोजितस्य आख्यानस्य अध्यक्षतां डॉ. के. श्रीनिवास-रावः अकरोत्, पैनल-वक्ता-रूपेण प्रो. रत्नेश्वर-मिश्रः उपस्थितः आसीत्। स्वीये भाषणे प्रो. रत्नेश्वर-मिश्रः अवदत् यत् सामान्य-कुटुम्बे जातः अपि जीवनपर्यन्तं सरलः भवितुं महत्त्वपूर्णम् अस्ति। बीज-वक्ता-रूपेण प्रो. देवेन्द्र-कुमार-चौबे उक्तवान् यत् समाजस्य विकास-काले अपि केचन जनाः बौद्धिक-वातावरण-निर्माणाय प्रयतन्ते। मनुष्यः केवलं जीवितत्वात् न लिखति, किन्तु कालस्य सह सत्यस्य प्रश्नाः तं लेखनाय प्रेरयन्ति।
फणिश्वरनाथेन अपि अस्य प्रदेशस्य वैशिष्ट्यं निर्भयतया आञ्चलिक-प्रवाहेन सह लेखितम् आसीत् इति उल्लिखितम्। सभायां डॉ.श्रीनिवास-रावः लेखकान्, कवीन्, शोधार्थिनः, छात्रान्, शिक्षण-संस्थानानि तथा गणमान्य-नागरिकान् सम्बोध्य अवदत् यत् सीमाञ्चल-प्रदेशः तथा पूर्णिया साहित्य-दृष्ट्या अतीव उर्वरः अस्ति, यतः अत्र हिन्दी-उर्दू-बाङ्ला-साहित्यस्य महान् समन्वयः दृश्यते।
कार्यक्रमे बनैली-स्टेट-कुमार-श्यामानन्द-सिन्हाया: विषये भारत-सर्वकारेण निर्गतं डाक-पत्रकं तस्य स्मारिका च प्रदर्शिते। सभागार-परिसरे विभिन्न-प्रकाशन-गृहाणां पुस्तक-प्रदर्शिनी, मणिपुरी-बैम्बू-स्थापत्य-कला, चित्रकला-प्रदर्शनानि, वस्त्र-कला, लिप्पन-चित्रकला, बाल-भवन-प्रदर्शिनी च मुख्य-आकर्षणानि आसन्।
द्वितीय-सत्रे कुमार-श्यामानन्द-सिंहस्य स्मृतौ संगीत-सन्ध्या आयोजिताभवत्, यस्मिन् पश्चिम-बङ्गालस्य प्रसिद्धा शास्त्रीय-संगीत-गायिका महुआ-चटर्जी, सनातन-गोस्वामी, शोभीक-सरकार इत्यादयः मनोहर-प्रस्तुतयः अकरोत्।
कार्यक्रमस्य अन्ते दातृभ्यः, सहकार्य-संस्थाभ्यः तथा उपस्थितेभ्यः अतिथिभ्यः धन्यवादः ज्ञापितः। मंच-संचालनं डॉ.रमणेन कृतम्, स्वागत-गानस्य नेतृत्वं सुप्रिया-मिश्रेण छात्राभिः सह कृतम्। एषा सूचना संस्थायाः सदस्याभ्यां सुमित-प्रकाशेन राहुल-साण्डिल्येन च प्रदत्ता।
हिन्दुस्थान समाचार / अंशु गुप्ता