डोनाल्ड-ट्रम्पः इस्राइल-लेबनानयोः मध्ये त्रिसप्ताह-पर्यन्तस्य संघर्षविरामस्य घोषणां कृतवान्
वाशिङ्टन-नगरम्, २४ अप्रैलमासः (हि.स.)। अमेरिकादेशस्य आतिथ्ये वाशिङ्टन-नगरे गुरुवासरे सम्पन्नायां राजदूत-स्तरीय-वार्तायां इस्राइल-लेबनानयोः प्रतिनिधयः त्रिसप्ताह-पर्यन्तं सैन्य-विरामाय (युद्ध-विरामाय/सीज-फायर-समझौत्याय) सहमतिं प्राप्तवन्तः। एषा वार्
वाशिंगटन में गुरुवार को राष्ट्रपति डोनाल्ड ट्रंप लेबनान और इजराइल के बीच युद्धविराम की घोषणा करते। उनके आसपास नजर आ रहे हैं - इजराइल में अमेरिकी राजदूत माइक हकाबी, अमेरिका में इजराइल के राजदूत येचिएल लीटर, अमेरिकी उपराष्ट्रपति जेडी वेंस, अमेरिकी विदेश मंत्री मार्को रूबियो, अमेरिका में लेबनान की राजदूत नाडा हमादेह मोअवाद और लेबनान में अमेरिकी राजदूत मिशेल इस्सा। फोटो - इंटरनेट मीडिया


वाशिङ्टन-नगरम्, २४ अप्रैलमासः (हि.स.)। अमेरिकादेशस्य आतिथ्ये वाशिङ्टन-नगरे गुरुवासरे सम्पन्नायां राजदूत-स्तरीय-वार्तायां इस्राइल-लेबनानयोः प्रतिनिधयः त्रिसप्ताह-पर्यन्तं सैन्य-विरामाय (युद्ध-विरामाय/सीज-फायर-समझौत्याय) सहमतिं प्राप्तवन्तः। एषा वार्ता अमेरिकी-विदेश-मन्त्रालयस्य मध्यस्थतायां सम्पन्ना।

सभान्ते द्वयोः पक्षयोः वार्तां कृत्वा राष्ट्रपति-डोनाल्ड-ट्रम्पः एतां घोषणां कृतवान्। सः उक्तवान् यत् इजराइल-लेबनानयोः मध्ये युद्ध-विरामः त्रिसप्ताह-पर्यन्तं विस्तारितः भविष्यति इति। तेन स्वस्य ‘सोशल-ट्रुथ’ नामके माध्यमे लिखितम्—“इजराइल-लेबनानयोः युद्ध-विरामः त्रिसप्ताह-पर्यन्तं वर्धिष्यते” इति। पूर्वं दश-दिवसीयः युद्ध-विरामः १६ अप्रैलमासे प्रवृत्तः आसीत्।

राष्ट्रपतिः अवदत् यत् एषः सन्धि: ओवल-कार्यालये सम्पन्नायां उच्चस्तरीय-सभायां जातः, यस्यां उपराष्ट्रपतिः जेडी-वेंसः, विदेशमन्त्री मार्को-रुबियो, इस्राइले अमेरिकीय-राजदूतः माइक-हकाबी, लेबनाने अमेरिकीय-राजदूतः मिशेल-इस्सा तथा इस्राइल-लेबनानयोः वरिष्ठ-प्रतिनिधयः च उपस्थिताः आसन्। ट्रम्पः उक्तवान्—“सभा अत्यन्तं सफलाभवत्। अहं निकट-भविष्ये इस्राइल-प्रधानमन्त्री बेंजामिन-नेतन्याहू तथा लेबनान-राष्ट्रपतिः जोसेफ-औन इत्यनयोः आतिथ्यं कर्तुं उत्सुकः अस्मि।”

ट्रम्पः पत्रकारैः सह उक्तवान् यत् ईरानेन लेबनानस्य आतङ्कवादी-सङ्घटनाय हिज्बुल्लाहाय वित्तीय-सहायता न कर्तव्या, शान्त्यै एषा आवश्यकता महत्त्वपूर्णा अस्ति।

अस्मिन्नेव समये ईरान-समर्थित-हिज्बुल्लाह-सङ्घटनेन वक्तव्यं दत्तम् यत् “लेबनानस्य जनानां रक्षणाय तथा इस्राइली-आक्रमणस्य प्रत्युत्तररूपेण रॉकेट-प्रहारैः श्टुला-निवासः लक्ष्यीकृतः” इति। इजराइली-सेनया अपि उक्तं यत् लेबनानतः प्रेषिताः कतिपये रॉकेट अवरुद्धाः।

लेबनान-स्वास्थ्य-मन्त्रालयेन सूचितं यत् अस्मात् रॉकेट-आक्रमणात् पूर्वं दक्षिण-लेबनाने इजराइल-आक्रमणेन त्रयः जनाः मृताः। इजराइल-रक्षा-मन्त्री इजराइल-काट्जः उक्तवान् यत् सः ईरान-विरुद्धं युद्धस्य पुनः प्रारम्भाय सज्जः अस्ति, तथा अमेरिका-समर्थनस्य प्रतीक्षां करोति।ईरान-विदेशमन्त्री अब्बास-अराघची अपि उक्तवान् यत् ईरानः सर्वेषां परिस्थितिनां समक्षं कर्तुं पूर्णतया सज्जः अस्ति।

अपरतः, लेबनानी-पत्रकार अमल-खलीलस्य हत्यायाः विषये अन्ताराष्ट्रिय-स्तरे विरोधः निरन्तरं प्रवर्तते।

अमेरिकायां लेबनान-राजदूतः नाडा-हमादेह-मोअवादः व्हाइट-हाउस-भवने संक्षेपेण पत्रकारैः सह उक्तवती यत् लेबनाने इजराइली-उल्लङ्घनानां निवारणं तथा दक्षिण-क्षेत्रे जनित-क्षतिं समाप्तुं पक्षः प्रस्तुतः। सा अपि अवदत् यत् लेबनानं पुनः “महान्” कर्तुं प्रयासः भविष्यति इति।

हिन्दुस्थान समाचार / अंशु गुप्ता