Enter your Email Address to subscribe to our newsletters

वाराणसी, 24 अप्रैलमासः (हि. स.)।
वाराणस्यां नगरे उत्तरीविधानसभाक्षेत्रस्य विधायकः प्रदेशसरकारे स्टाम्पपञ्जीयनराज्यमन्त्री (स्वतन्त्रप्रभार) रविन्द्रजायसवालः शुक्रवासरस्य प्रातःकाले मलदहियाचौराहस्य समीपे स्वच्छताभियानं आयोजितवान्।
स्वच्छताभियानस्य अन्तर्गतं तेन मलदहियाचौराहे स्थापितस्य सरदारवल्लभभाईपटेलस्य मूर्तेः शोधनं कृत्वा माल्यार्पणं कृतम्। मूर्तिशोधनकार्ये भाजपाकार्यकर्तारः अपि सहयोगं कृतवन्तः।
ततः मलदहियाचतुष्पथः प्रारभ्य भाजपाया बागेश्वरीमण्डलस्य कार्यकर्तृभिः सह मन्त्री रविन्द्रजायसवालः नीलकाटेजमार्गेण विजयानेगरकालोनीपर्यन्तं गत्वा पुनः अन्यया मार्गेण आगत्य मार्गस्य सम्यक् स्वच्छतां कृतवान्, स्वच्छकाश्याः सन्देशं च दत्तवान्।
अस्मिन् अवसरे भाजपाया मण्डलाध्यक्षः मनोजसोनकरः, पार्षदाः सिद्धनाथशर्मा, संजूसरोजः, सुशीलगुप्तः, राजेन्द्रयादवः, पूर्वपार्षदः दिनेशयादवः, दिनेशकाळरा, राहतसिंहः, सुजीतगुप्तः, सुमितजायसवालः, महेन्द्रपाण्डेयः इत्यादयः मण्डलस्य कार्यकर्तारश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार