योगी-सर्वकारे संस्कृत-शिक्षायै नूतनं परिचयं प्राप्तम्, उत्तरप्रदेश-संस्कृत-शिक्षा-संघस्य २०२६-वर्षस्य परिणामः घोषितः
लखनऊ-नगरम्, २४ अप्रैलमासः (हि.स.)। उत्तरप्रदेशे योगी-सर्वकारेण शिक्षाक्षेत्रे कृतानां सुधाराणां प्रभावः अधुना संस्कृत-शिक्षायामपि स्पष्टतया दृश्यते। उ०प्र०-माध्यमिक-संस्कृत-शिक्षा-परिषदः, लखनऊ-द्वारा २०२६-वर्षस्य पूर्व-मध्यमा-द्वितीय, उत्तर-मध्यमा-
VS-UP-CM-YOGI-CODEINE


लखनऊ-नगरम्, २४ अप्रैलमासः (हि.स.)। उत्तरप्रदेशे योगी-सर्वकारेण शिक्षाक्षेत्रे कृतानां सुधाराणां प्रभावः अधुना संस्कृत-शिक्षायामपि स्पष्टतया दृश्यते। उ०प्र०-माध्यमिक-संस्कृत-शिक्षा-परिषदः, लखनऊ-द्वारा २०२६-वर्षस्य पूर्व-मध्यमा-द्वितीय, उत्तर-मध्यमा-प्रथम तथा उत्तर-मध्यमा-द्वितीय-परीक्षाणां परिणामाः घोषिताः।

अस्मिन् वर्षे पूर्व-मध्यमा-द्वितीये ९५.९१%, उत्तर-मध्यमा-प्रथमे ९४.४०% तथा उत्तर-मध्यमा-द्वितीये ९४.८६% परीक्षार्थिनः सफलाः अभवन्। माध्यमिक-शिक्षा-निदेशकः डॉ.महेन्द्र-देव: तथा परिषदः सचिवः शिव-लालः परिणामान् घोषितवन्तौ। परीक्षाः १९ फरवरीतः २८ फरवरी २०२६ पर्यन्तं २४१ केन्द्रेषु सुशासित-व्यवस्थया सम्पन्नाः।

पूर्व-मध्यमा-द्वितीये सुजीत-कुमारः (कन्नौज) प्रथमः, खुशबू-सरोज: (प्रतापगढ़) द्वितीया, मुलायम-सिंह-यादवः तथा प्रियंका-सरोज: (उभौ अपि प्रतापगढ़) तृतीय-स्थानं प्राप्तवन्तौ। उत्तर-मध्यमा-द्वितीये रजनीश-यादवः (प्रतापगढ़) प्रथमः, वंशिका-श्रीवास्तव (प्रतापगढ़) द्वितीया, काजल (प्रतापगढ़) तथा संस्कृति (अमरोहा) तृतीय-स्थानं प्राप्तवन्तौ।

परीक्षासु बालिकानां प्रदर्शनं सर्वत्र श्रेष्ठम् आसीत्। सर्वत्र सीसीटीवी-निरीक्षणेन, ऑनलाइन-उपस्थिति-प्रणाल्या तथा राज्य-स्तरीय-नियन्त्रण-कक्षस्य माध्यमेन पारदर्शिता सुनिश्चिता।

परिषदा उक्तं यत् अस्य वर्षस्य परिणामः गतवर्षात् अपि श्रेष्ठः अस्ति, यः नकल-विहीन-परीक्षा-प्रणाल्याः तथा पारदर्शी-नीतेः प्रत्यक्षं प्रमाणम् अस्ति। योगी-सर्वकारस्य नीतिभिः संस्कृत-शिक्षायाः प्रोत्साहनं जातम्, येन छात्राणां कृते नूतनाः अवसराः अपि सृज्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता