होमगार्डनियुक्तिपरीक्षायाः प्रथम दिने पालिद्वये 1567 अभ्यर्थिनोऽनुपस्थिता अवर्तन्त
अयोध्या, 25 अप्रैलमासः (हि.स.)। उत्तरप्रदेशपुलिसनियुक्तिप्रोन्नतिपरिषद्द्वारा शनिवासरे जनपदे आयोजितायां त्रिदिवसीयायां होमगार्डनियुक्तिपरीक्षायाः प्रथमदिने दशसु केन्द्रेषु शान्तिपूर्वकं परीक्षा सम्पन्ना। प्रथमपाले समग्रेषु 4032 अभ्यर्थिषु 3248 अभ्
होम गार्ड परीक्षा


अयोध्या, 25 अप्रैलमासः (हि.स.)। उत्तरप्रदेशपुलिसनियुक्तिप्रोन्नतिपरिषद्द्वारा शनिवासरे जनपदे आयोजितायां त्रिदिवसीयायां होमगार्डनियुक्तिपरीक्षायाः प्रथमदिने दशसु केन्द्रेषु शान्तिपूर्वकं परीक्षा सम्पन्ना। प्रथमपाले समग्रेषु 4032 अभ्यर्थिषु 3248 अभ्यर्थिनः (80.56 प्रतिशतं) उपस्थिताः, 784 (19.44 प्रतिशतं) अनुपस्थिताः आसन्। एवमेव द्वितीयपाले अपि समग्रेषु 4032 अभ्यर्थिषु 3249 अभ्यर्थिनः (80.58 प्रतिशतं) उपस्थिताः, 783 (19.42 प्रतिशतं) अनुपस्थिताः आसन्। समग्रतया 1567 अभ्यर्थिनः अनुपस्थिताः अभवन्।

बोर्डद्वारा जनपदे आयोजितायाः त्रिदिवसीयायाः होमगार्डभर्तीपरीक्षायाः सुचारुं निष्पक्षं च सञ्चालनं सुनिश्चितं कर्तुं शनिवासरे जिलाधिकारी शशांकत्रिपाठी तथा वरिष्ठपुलिसअधीक्षकः डॉ. गौरवग्रोवर उभौ मनोहरलालइंटरकॉलेजस्थितं परीक्षा केन्द्रं संयुक्तरूपेण निरीक्षितवन्तौ।

निरीक्षणकाले अधिकारिभ्याम् केन्द्रे सुरक्षा व्यवस्था, सीसीटीवीकैम्राणां निरीक्षणं, परीक्षार्थिनां उपवेशनव्यवस्था, पेयजलव्यवस्था, स्वच्छता च इत्यादीनि आवश्यकसुविधानि सूक्ष्मतया परीक्षितानि।

ताभ्याम् केन्द्रव्यवस्थापकान् निर्देशितं यत् परीक्षा प्रक्रिया पूर्णतया पारदर्शी, नकलविहीना, शान्तिपूर्णपर्यावरणे च सम्पन्ना क्रियते। जिलाधिकारी उक्तवान् यत् सर्वेषु परीक्षा केन्द्रेषु पर्याप्ता सुरक्षा व्यवस्था सुनिश्चितिता अस्ति तथा प्रत्येकक्रियायाः सततं निरीक्षणं क्रियते।

एसएसपी महोदयेन अपि नियोजितं पुलिसबलं सतर्कतया स्वदायित्वं निर्वहन्तु इति निर्देशाः दत्ताः। अधिकारिभ्यां स्पष्टतया उक्तं यत् परीक्षायाः निष्पक्षतायां कापि सहमतिर्न करिष्यते। कस्यापि प्रकारस्य अनियमिततायां दृष्टायां कठोरकार्यवाही करिष्यते।----------------------

हिन्दुस्थान समाचार