Enter your Email Address to subscribe to our newsletters

एनसीआर-क्षेत्रे आंशिक-मेघाच्छादनस्य तथा कतिपय-स्थानेषु लू-प्रकोपस्य येलो-संचेतना निर्गता।
राष्ट्रीय-राजधानी-नगरे शनिवासरे अधिकतमं तापमानं ४२–४४ डिग्री सेल्सियस इति अभिलेखितम्। रात्रौ उत्तर-पश्चिम-दिशि १५ किलोमीटर-प्रति-होरा वेगेन वायुः प्रवाहितुं सम्भाव्यते।
अग्रिमदिने २६ अप्रैल-दिने दिल्ली-एनसीआर-क्षेत्रे आंशिक-मेघाच्छादनं भविष्यति। तस्मिन् दिने अधिकतमं तापमानं ४१–४३ डिग्री तथा न्यूनतमं २५–२७ डिग्री सेल्सियस इति अनुमानितम्, किन्तु कतिपय-स्थानेषु न्यूनतमं तापमानं सामान्यात् अधिकं भवितुम् अर्हति। अपि च मध्याह्ने वायोः वेगः २५ किलोमीटर-प्रति-घण्टा तथा सायंकाले १५ किलोमीटर-प्रति-होरा भविष्यति।
दिल्ली-नगरे २७ अप्रैल-दिने उष्णतायाः विराम: सम्भावित: अस्ति, यतः तस्मिन् दिने आंशिक-मेघाच्छादनस्य सह अल्प-वृष्टेः पूर्वानुमानं अस्ति। तदा दिनकाले वायोः वेगः ३०–४० किलोमीटर-प्रति-होरा पर्यन्तं वर्धितुं शक्यते।
मौसम-विभागेन दिल्ली-एनसीआर, उत्तर-पश्चिम-भारत-प्रदेशेषु च अग्रिम-त्रिदिनेषु लू-प्रकोपस्य संचेतना दत्ता अस्ति। अस्मिन् सप्ताहे पश्चिम-बङ्ग-सिक्किम-सहितं पूर्वोत्तर-भारतस्य कतिपय-प्रदेशेषु भारी-वृष्टेः सम्भावना अस्ति। उत्तर-पश्चिम-भारतस्य जम्मू-कश्मीर-लद्दाख-गिलगित-मुजफ्फराबाद-प्रदेशेषु च २५–२८ अप्रैल-पर्यन्तं अल्प-मध्यम-वृष्टेः तथा हिमपातस्य अपि सम्भावना वर्तते।
हिन्दुस्थान समाचार / अंशु गुप्ता