हिसार : कर्मचारी बिना स्वीकृत्या अवकाशे गतश्चेत् कार्यवाही : विक्रम सिंहः
अवकाशं ग्रहीतुं प्राक् 15 दिनेभ्यः पूर्वम् आवेदनम् अनिवार्यम्, डीएचबीवीएन प्रबंधनस्य निर्देशो निर्गतः हिसार, 25 अप्रैलमासः (हि.स.)। दक्षिण एवं उत्तर हरियाणा विद्युत् वितरण निगमयोः प्रबन्ध निदेशकः विक्रम सिंह महोदयस्य निर्देशानुसारं डीएचब
प्रबंध निदेशक विक्रम सिंह।


अवकाशं ग्रहीतुं प्राक् 15 दिनेभ्यः पूर्वम् आवेदनम् अनिवार्यम्, डीएचबीवीएन प्रबंधनस्य निर्देशो निर्गतः

हिसार, 25 अप्रैलमासः (हि.स.)।

दक्षिण एवं उत्तर हरियाणा विद्युत् वितरण निगमयोः प्रबन्ध निदेशकः विक्रम सिंह महोदयस्य निर्देशानुसारं डीएचबीवीएन प्रबन्धनेन निगमकर्मचारिणां अनुमतिं विना अवकाशगमनस्य प्रवृत्तौ कठोरता आचरिता नूतनाः निर्देशाः निर्गतीकृताः। अधुना सर्वे कर्मचारिणः अवकाशं गन्तुं न्यूनातिन्यूनं पञ्चदशदिनपूर्वं सम्बन्धितायै कैडर-नियन्त्रण-प्राधिकरणाय पूर्णविवरणसहितं आवेदनं दातुं अनिवार्यम्।

निर्गतीकृतादेशानुसारं दक्षिण हरियाणा विद्युत् वितरण निगमप्रबन्धनस्य संज्ञानं प्राप्तं यत् बहवः कर्मचारिणः अवकाशस्य अनुमोदनात् पूर्वमेव अवकाशं यान्ति तथा समये आवेदनं न समर्पयन्ति, येन अन्येषां कर्मचारिणां उपरि अतिरिक्तकार्यभारः पतति तथा दैनिककार्यं प्रभावितं भवति।

निगमप्रवक्ता संजय चुघः शनिवासरे अवदत् यत् नूतननिर्देशानुसारं भविष्ये यदि कश्चित् कर्मचारी निर्धारितप्रक्रियायाः पालनं न करोति, तर्हि तस्य विरुद्धं निगमस्य प्रचलितनियमैः अनुशासनात्मककार्यवाही क्रियते। सः अपि अवदत् यत् प्रबन्ध निदेशकस्य विक्रम सिंह महोदयस्य अनुमत्याः अनन्तरं सर्वेषां विभागाध्यक्षानां तथा मुख्यालयस्य सम्बन्धिताधिकारिणां, मुख्य अभियन्तॄणां, अधीक्षण अभियन्तॄणां तथा कार्यकारी अभियन्तॄणां प्रति एतेषां निर्देशानां दृढतापूर्वकं पालनं सुनिश्चितं कर्तुं आदेशाः निर्गताः।

हिन्दुस्थान समाचार