के.चन्द्रशेखर-रावस्य पुत्री के.कविता इत्यनया नूतन: राजनैतिक-पक्षः ‘तेलंगाना राष्ट्र सेना’ इति नाम्ना स्थापितः
हैदराबाद-नगरम्, २५ अप्रैलमास: (हि.स.)। प्रचण्ड-उष्णतायां तेलंगाना-राजनीतौ शनिवासरे महान् घटनाक्रमः दृष्टः, यदा पूर्व-विधानपरिषद्-सदस्या (एम.एल.सी.) कलवकुंतला कविता नूतन-राजनैतिक-पक्षस्य ‘तेलंगाना राष्ट्र सेना’ (टी.आर.एस.) इति नाम्ना निर्माणस्य घोषण
के कविता ने बनाई नई पार्टी नाम रखा टी आर एस


हैदराबाद-नगरम्, २५ अप्रैलमास: (हि.स.)। प्रचण्ड-उष्णतायां तेलंगाना-राजनीतौ शनिवासरे महान् घटनाक्रमः दृष्टः, यदा पूर्व-विधानपरिषद्-सदस्या (एम.एल.सी.) कलवकुंतला कविता नूतन-राजनैतिक-पक्षस्य ‘तेलंगाना राष्ट्र सेना’ (टी.आर.एस.) इति नाम्ना निर्माणस्य घोषणां कृतवती। एषः निर्णयः राज्य-राजनीत्यां महत्त्वपूर्णः परिवर्तन-बिन्दुः इति मन्यते।

तेलंगाना-राज्यस्य पूर्व-मुख्यमन्त्री के.चन्द्रशेखर-रावस्य पुत्री तथा पूर्वं भारत-राष्ट्र-समितेः (बी.आर.एस.) प्रमुखा नेत्री आसीत् के. कविता दीर्घकालं यावत् पक्ष-नेतृत्वेन सह मतभेदं वहति स्म। आन्तरिक-विवादानां कारणात् सा जून-२०२५ तमे वर्षे दलात् निलम्बिता अभवत्। ततः सा एम.एल.सी.-पदम् तथा बी.आर.एस.-सदस्यतां च त्यक्तवती।

बी.आर.एस.-पक्षात् पृथक् भूत्वा सप्त-मासानन्तरं कविता स्वनव-पक्षाय तदेव नाम ‘टी.आर.एस.’ इति चयनं कृतवती, यत् नाम तस्याः पितुः तेलंगाना-राज्य-आन्दोलनस्य आरम्भे उपयुक्तम् आसीत्। एतत् नाम-चयनं राजनैतिक-दृष्ट्या अत्यन्तं प्रतीकात्मकम् इति मन्यते।

के. कविता स्पष्टं कृतवती यत् तस्याः नूतन-पक्षस्य मुख्य-लक्ष्यं तेलंगाना-क्षेत्रीय-समस्याः, सामाजिक-न्यायः तथा पृष्ठ-वर्गाय (ओ.बी.सी.) ५० प्रतिशत-आरक्षणस्य याचना भविष्यति। सा उक्तवती यत् तेलंगाना-जनानां मूल-आकांक्षाः पुनः केन्द्रे स्थापयितुं तस्याः प्रमुखं लक्ष्यं भविष्यति।

पक्ष-घोषणायाः पूर्वं सा हैदराबाद-नगरस्य गण-उद्यान-स्थिते अमरवीर-स्तूपे १९६९-वर्षीय-तेलंगाना-आन्दोलन-बलिदानिन: पुष्पाञ्जल्या सम्मानितवती। ततः मुनीराबाद-क्षेत्रे आयोजिते कार्यक्रमे सा मुख्यमन्त्रित्वं प्राप्तुं तथा राज्ये “नूतना क्रान्तिः” स्थापयितुं संकल्पं कृतवती।

सा आत्मानं जनानां “अम्बा” इति वर्णयन्ती उक्तवती यत् सा तेलंगाना-जनानां मातृवत् नेतृत्वं कर्तुम् इच्छति। अस्मिन् सन्दर्भे सा तमिलनाडु-पूर्व-मुख्यमन्त्रिण्या: जे.जयललितायाः अपि तुलनां कृतवती।

स्वभाषणे सा उक्तवती यत् तस्याः बी.आर.एस.-सर्वकारे कृतानां किञ्चित् कार्याणां विषये लज्जा अनुभूता। तथापि सा तेलंगाना-राज्य-आन्दोलने स्वभूमिकां तथा राज्य-प्राप्तिं प्रति गर्वम् अपि प्रकटितवती।

सा उक्तवती यत् “तेलंगाना राष्ट्र सेना” पूर्व-दोषान् संशोधयितुं तथा राज्यं पुनः आन्दोलनस्य मूल-आकांक्षाभिः सह संयोजयितुं प्रयासं करिष्यति। सा ‘तेलंगाना जागृति’ इत्यस्य अपि उल्लेखं कृतवती।

स्वपितुः के. चन्द्रशेखर-रावस्य आन्दोलनं प्रति टिप्पणीं कुर्वती सा उक्तवती यत् कालानुगत्या आन्दोलन-रथः स्वमार्गात् विचलितः जातः तथा जनानां वास्तविक-समस्याः सम्यक् न अवगम्यन्ते। सा उक्तवती— “तेलंगाना-राज्यस्य सामाजिक-रथः खण्डेषु विभक्तः अस्ति।”

राजनीतिक-विश्लेषकानां मतानुसारं के. कविता इत्यस्याः एषः निर्णयः बी.आर.एस.-पक्षाय महती स्पर्धा भवितुम् अर्हति, यतः एषः प्रत्यक्षतया तेलंगाना-भावनया सह सम्बद्धः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता