Enter your Email Address to subscribe to our newsletters


-ऊसरभूतितश्शुभारब्धा आजीविकायाः नूतनमार्गःभोपालम्, 25 अप्रैलमासः (हि.स.)। मध्यप्रदेशराज्यस्य मण्डलाजिलान्तर्गतस्य बिछियाखण्डस्य लघुग्रामे कन्हारीकलानाम्नि निवसन्ती सुहनिया मरावी स्वपरिश्रमेण लग्नतया च स्वजीवनं परिवर्त्य समग्रजनजातिसमाजस्य कृते प्रेरणास्रोतः अभवति।
स्थानीयभाषायां “बर्रा” इति कथ्यमानानि ऊसरक्षेत्राणि, सीमितसंसाधनानि च कारणीकृत्य पूर्वं अभावयुक्तजीवनं यापयन्ती सुहनिया अधुना आत्मनिर्भरत्वं प्राप्तवती “लखपतिदिदी” इति रूपेण प्रसिद्धिं प्राप्तवती। तस्याः उत्कृष्टकार्याणां कारणेन तस्या मंगुभाई पटेल इत्यनेन सह मिलनस्य अवसरः अपि प्राप्तः।
जनसंपर्कअधिकारी आर.आर.पटेल अवदत् यत् सुहनियायाः परिवारस्य चत्वारि एकड् भूमिः सन्ति, किन्तु सिंचनसुविधायाः अभावात् कृषिकर्म कठिनम् आसीत्। परिवारस्य निर्वाहः मुख्यतया तस्याः पतिः प्रमोदमरावी इत्यस्य ट्रकचालनकार्येण प्राप्तायाः आयायाः उपरि निर्भरः आसीत्। एतादृश्यां परिस्थितौ सुहनियायाः जीवनपरिवर्तनस्य आरम्भः आजीविकामिशनेन सह सम्बद्धतया अभवत्।
तया “गङ्गा स्वसहायतासमूहः” स्थापितः तथा चत्वारिंशत्सहस्ररूप्यकाणां ऋणं गृहीत्वा उपयोजितयन्त्रयुक्तं द्वितीयहस्तट्रैक्टरं क्रीतवती। तं ट्रैक्टरं भाडायां दत्त्वा नूतनं आयस्रोतं निर्मितवती तथा शीघ्रमेव ऋणं प्रत्यर्पितवती।
अनन्तरं तया स्वस्य बंजरक्षेत्रं संस्कृत्य धान्यकृषिः आरब्धा। वर्षाजलस्य आश्रयेण मटरादीनि अन्यानि पिकानि अपि उत्पादितवती। आत्मविश्वासवृद्ध्या सा एकलक्षपञ्चत्रिंशत्सहस्ररूप्यकाणां ऋणं गृहीत्वा “थ्रेशर” यन्त्रं क्रीतवती। एतत् यन्त्रं अन्यकृषकान् प्रति भाटके दत्त्वा स्वीयां आयां अधिकां कृतवती। अधुना तस्याः समीपे ट्रैक्टर, थ्रेशर, लोडर इत्यादीनि कृषियन्त्राणि सन्ति, ये तस्याः आर्थिकसुदृढतायाः आधारभूतानि जातानि। अद्यतनकाले तस्यै पशुपालनयोजनान्तर्गतं एका महिषी अपि प्रदत्ता, येन तस्याः आयवृद्धेः अधिका सम्भावना अस्ति।
सुहनिया मरावी इत्यस्याः नेतृत्वक्षमतां दृष्ट्वा तस्या “बैगाचक फार्मर प्रोड्यूसर ऑर्गेनाइजेशन” इत्यस्य निदेशकपदे नियुक्ता। तया बहवः महिला कृषकाः संयोजिताः, ताभ्यः पिकोत्पादनम्, विपणनम्, व्यवसायपद्धतयः च शिक्षिताः। एतेषां कृषकपरिवाराणां “श्रीअन्न” (कोदो कुटकी) इत्यादीनां पिकानां संगठितविक्रयेन उत्तमा आयः अधुना लभ्यते।____________________
हिन्दुस्थान समाचार