Enter your Email Address to subscribe to our newsletters

गणितज्ञस्य रामानुजनस्य पुण्यतिथौ (26 अप्रैल) विशेषः
- योगेश कुमार गोयलः
भारतस्य महान् गणितज्ञः श्रीनिवास रामानुजन विश्वविख्यातः आसीत्, येन गणितस्य विभिन्नेषु क्षेत्रेषु शाखासु च अविस्मरणीयं योगदानं कृतम्, यस्य प्रयासैः योगदानैश्च गणितशास्त्रं नूतनार्थं प्राप्तवान्। तेन कृताः “रामानुजन थीटा” तथा “रामानुजन प्राइम” इत्याख्याः शोधाः अस्मिन् विषये अग्रे अनुसन्धानविकासयोः कृते विश्वस्य सर्वेषां अनुसन्धानकर्तॄणां प्रेरणास्रोतः अभवन्। प्रायः दशकपूर्वं तदान्तनप्रधानमन्त्री मनमोहन सिंह चेन्नईनगरे रामानुजनस्य 125तमजयन्त्युत्सवे तस्मै श्रद्धाञ्जलिं दत्त्वा उक्तवान् यत् एतादृशाः प्रतिभाशालिनः गूढज्ञानयुक्ताश्च पुरुषाः स्त्रियश्च विरलतया एव जायन्ते। महान् गणितज्ञः रामानुजनः आधुनिकभारतस्य तेषु व्यक्तित्वेषु गणनीयः अस्ति, ये विश्वे नूतनज्ञानस्य अन्वेषणाय अग्रसराः आसन्।
मद्रासनगरात् प्रायः चत्वारिशत्किलोमीटरदूरे तमिलनाडुराज्यस्य ईरोडनगरस्य समीपे 22 दिसम्बर 1887 तमे दिने जन्म प्राप्तवान् श्रीनिवास अयंगर रामानुजन बाल्यकालः कठिनताभिः दरिद्रतया च व्यतीतः। त्रिवर्षपर्यन्तं सः वक्तुं न अशक्नोत्, येन परिवारजनाः चिन्तिताः अभवन् यत् सः मूकः भवेत् इति; किन्तु कः जानाति यत् स एव बालकः गणितक्षेत्रे एतादृशं महान् कार्यं करिष्यति यत् शताब्दिपर्यन्तं लोकैः आदरेण स्मर्यते। गणिते तस्य अत्यधिकरुचिः आसीत्; सः गणिते प्रायः शतप्रतिशताङ्कान् प्राप्नोति स्म, परन्तु अन्येषु विषयेषु कठिनतया एव उत्तीर्णः भवति स्म, यतः तस्य मनः केवलं गणिते एव लग्नम् आसीत्। तेन कदापि औपचारिकं गणितप्रशिक्षणं न प्राप्तम्।
गणिते अतुलनीययोगदानस्य कृते तस्मै के रंगनाथराव पुरस्कारः अपि प्रदत्तः। तस्य गणितप्रेम एतावत् अभवत् यत् सः अन्यविषयान् उपेक्षितवान्। अन्यविषयकक्षासु अपि सः गणितप्रश्नान् एव समाधानं करोति स्म। फलतः एकादशकक्षायां सः गणितं विना अन्येषु सर्वेषु विषयेषु अनुत्तीर्णः अभवत्, येन तस्य छात्रवृत्तिः निरस्ता। परिवारस्य आर्थिकस्थितिः अपि दुर्बला आसीत्, अतः सः रामास्वामी अय्यर इत्यस्य सहाय्येन मद्रासपोर्टट्रस्टे लिपिकरूपेण कार्यं आरब्धवान्। कार्यकाले अपि सः अवकाशसमये कागदपत्रेषु गणितप्रश्नान् समाधानं करोति स्म।
कदाचित् कस्यचित् आङ्ग्लपुरुषस्य दृष्टिः तेन कृतानां गणितप्रश्नानां उपरि पतिता, सः तस्य प्रतिभया अत्यन्तं प्रभावितः अभवत्। तस्यैव माध्यमेन रामानुजनस्य परिचयः प्रसिद्धेन ब्रिटिशगणितज्ञेन जी एच हार्डी सह अभवत्। हार्डी तस्य विलक्षणप्रतिभां ज्ञात्वा तं लण्डननगरं आमन्त्रितवान् तथा ट्रिनिटी कॉलेज मध्ये तस्य अध्ययनव्यवस्था अकरोत्, ततः तस्य कीर्तिः विश्वे प्रसृता। हार्डी महोदयेन रामानुजनः लियोनार्ड ऑयलर, कार्ल फ्रेडरिक गाउस, आर्किमिडीज, आइजैक न्यूटन इत्यादीनां महानुभावानां समकक्षे स्थाप्यते स्म। 1917 तमे वर्षे सः लंदन मैथेमेटिकल सोसायटी सदस्यत्वं प्राप्तवान्, अनन्तरं रॉयल सोसायटी अपि तं स्वीयं फैलो कृत्वा सम्मानितवती।
रामानुजनः प्रायः पञ्चवर्षाणि कैम्ब्रिजे अवसत्, तत्र सः गणितविषये बहूनि शोधपत्राणि अलिखत्। विशेषतया सः संख्या सिद्धान्ते कार्यं कृतवान्। जी एच हार्डी सह मिलित्वा तेन बहवः शोधपत्राः प्रकाशिताः, तेषु कस्यचित् विशेषशोधस्य कृते कैम्ब्रिजविश्वविद्यालयेन तस्मै बीए उपाधिः अपि प्रदत्ता। रामानुजनः आधुनिकभारतस्य तेषु व्यक्तित्वेषु गणनीयः अस्ति, ये विश्वे नूतनज्ञानस्य अन्वेषणं कृतवन्तः।
भारतीयगणितपरम्परायाः महान् वाहकः रामानुजनः “गणितज्ञस्य गणितज्ञः” तथा संख्या सिद्धान्ते अद्भुतकार्यस्य कारणात् “संख्यानां जादूगरः” इति अपि कथ्यते। तेन स्वयमेव गणितं शिक्षितम्, जीवनकाले च 3884 प्रमेयाणां संग्रहः कृतः, येषां बहवः सत्यतया सिद्धाः सन्ति। तेन गणितीयविश्लेषणे, अनन्तश्रृङ्खलासु, संख्यासिद्धान्ते, निरन्तरभिन्नांशेषु च आश्चर्यजनकं योगदानं कृतम्, तथा अनेकानि समीकरणानि सूत्राणि च प्रस्तुतानि। सः एव सः विश्वविख्यातः गणितज्ञः, येन गणितस्य विविधेषु क्षेत्रेषु अविस्मरणीयं योगदानं कृतम् तथा यस्य प्रयासैः गणितशास्त्रं नूतनार्थं प्राप्तवान्।
(लेखकः स्वतंत्रष्टिप्पणीकारःअस्ति ।)
---------------
हिन्दुस्थान समाचार