केदारनाथ धाम्नोऽनन्तरं श्री भकुंट भैरवनाथ मंदिरस्य संजातं कपाटोद्घाटनम्
रुद्रप्रयागः, 25 अप्रैलमासः (हि.स.)। केदारनाथ धाम्नः कपाट-उद्घाटनानन्तरं शनिवासरे श्री भकुंट भैरवनाथ मंदिरस्य कपाटाः अपि विधि-विधानपूर्वकं श्रद्धालूनां दर्शनार्थं उद्घाटिताः। अस्मिन् अवसरे बहुसंख्यकाः तीर्थयात्रिणः उपस्थिताः आसन् तथा जयघोषैः सह दर्
केदारनाथ धाम में श्री भकुंट भैरवनाथ मंदिर के  कपाट खुलने पर उपस्थित श्रद्धालु।


रुद्रप्रयागः, 25 अप्रैलमासः (हि.स.)। केदारनाथ धाम्नः कपाट-उद्घाटनानन्तरं शनिवासरे श्री भकुंट भैरवनाथ मंदिरस्य कपाटाः अपि विधि-विधानपूर्वकं श्रद्धालूनां दर्शनार्थं उद्घाटिताः। अस्मिन् अवसरे बहुसंख्यकाः तीर्थयात्रिणः उपस्थिताः आसन् तथा जयघोषैः सह दर्शनं कृतवन्तः।

धार्मिक-परम्परानुसारं मध्याह्ने पुजारी टी. गङ्गाधर लिङ्ग महोदयस्य नेतृत्वे श्री बदरीनाथ-केदारनाथ मंदिर समिति तथा श्री केदार सभा पदाधिकाऱिणां सन्निधौ हवन-यज्ञः तथा पूजा-अर्चना सम्पन्ना, अनन्तरं मन्दिरस्य कपाटाः उद्घाटिताः।

अस्मिन् अवसरि श्री बदरीनाथ-केदारनाथ मंदिर समिति अध्यक्षः हेमन्त द्विवेदी महोदयः अपि उपस्थितः आसीत्। सः देश-विदेशेभ्यः आगतानां श्रद्धालूनां शुभकामनाः प्रेषयन् अवदत् यत् भकुंट भैरवनाथ-मन्दिरस्य कपाट-उद्घाटनानन्तरं अधुना केदारनाथ-धामे भगवान् केदारनाथस्य नित्य-आरती-क्रमः प्रारब्धः।

धार्मिक-मान्यतानुसारं भकुंट भैरवनाथः केदारनाथ-धामस्य रक्षक-देवता इति मन्यते। शीतकाले यदा केदारनाथ-मन्दिरस्य कपाटाः बद्धाः भवन्ति, तदा सम्पूर्ण-प्रदेशस्य रक्षणस्य दायित्वं भैरवनाथस्य इति श्रद्धा अस्ति। अतः केदारनाथ-यात्रायां श्रद्धालवः भैरवनाथ-मन्दिरस्य दर्शनं विशेष-महत्त्वेन मन्यन्ते।

प्रशासनस्य तथा मन्दिर-समितेः पक्षतः यात्रिणां सुविधायै सुरक्षायै च विस्तृताः व्यवस्थाः कृताः सन्ति। अस्मिन् वर्षे यात्रायाः विषये श्रद्धालुषु विशेषः उत्साहः दृश्यते।

अस्मिन् अवसरे रुद्रप्रयाग-जिलाधिकारी तथा बीकेटीसी-मुख्य-कार्याधिकारी विशाल मिश्र महोदयः, केदार-सभा-अध्यक्षः राजकुमार तिवारी महोदयः, बीकेटीसी-सदस्यः डॉ. विनीत पोस्ती, तीर्थ-पुरोहितः सन्तोष त्रिवेदी, प्रभारी-अधिकारी राजन नैथान तथा अन्ये पदाधिकारिणो बहवः तीर्थयात्रिणश्च उपस्थिताः आसन्।

------------------

हिन्दुस्थान समाचार